________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यनदशकमेवाह-'काले सुकाले' इत्यादिना, मातृनामभिस्तदपत्यानां पुत्राणां नामानि, यथा काल्या अयमिति काल: कुमारः, एवं सुकाल्याः महाकाल्याः कृष्णायाः सुकृष्णायाः महाकृष्णायाः वीरकृष्णायाः रामकृष्णायाः पितृसेनकृष्णायाः महासेनकृष्णायाः अपत्यमित्येवं पुत्रनाम वाच्यम् । इह काल्या अपत्यमित्याद्यथै प्रत्ययो नोत्पाद्यः, काल्यादिशब्देष्वपत्येऽर्थे एयण प्राप्त्या कालसुकालादिनामसिद्धः। एवं चाद्यः कालः १, तदनु सुकालः २, महाकालः ३, कृष्णः ४, सुकृष्णः ५ महाकृष्णः ६ वीरकृष्णः ७, रामकृष्णः ८, पितृसेनकृष्णः ९, महासेनकृष्णः १० दशमः । इत्येवं दशध्ययनानि निरयावलिकानामके प्रथमे वर्ग इति ॥ ‘एवं खलु जंबु ते णं काले ण ' मित्यादि, ' इहेव 'त्ति इहैव देशतः प्रत्यक्षासन्नेन पुमरसख्येयत्वाज्जाम्बूद्वीपानामन्यत्रति भावः । भारते वर्षेक्षेत्रे चम्पा एषा नगरी अभूत् । रिद्धेत्यनेन — रिद्धस्थिमियसमिद्धे ' त्यादि दृश्य, व्याख्या तु प्राग्वत् । तत्रोत्तरपूर्वदि. ग्भागे पुर्णभद्रनामकं चत्यं व्यन्तरायतनम् । कुणिए नाम राय' त्ति ऋणिकनामा श्रेणिकराजपुत्रो राजा होत्थ' त्ति अभवत् । तद्वर्णको “ महयाहिमवंतमहंतमलयमंदरमहिंदसारेत्यादि पसंतडिंबडमरं रज्जं पसाहेमाणे विहरइ " इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया, तथा मलयः-पर्वतविशेषो, मन्दरो-मेरुः, महेन्द्रः शक्रादिदेवराजः, तद्वत्सारः-प्रधानो यः स तथा । प्रशान्तानि डिम्बानि विघ्नाः डमराणि च-राजकुमारादिकृता विडवरा यस्मिस्तत्तथा ( राज्यं ) प्रसाधयन्-पालयन् विहरति-आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा ' सोमाला जाव विहरइ ' यावत्करणादेवं दृश्यम् “सुकुमालपाणिपाया अहीणपंचिंदियसरीरा " अहीनानि-अन्यूनानि लक्षणतः स्व
For Private and Personal Use Only