________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा हि-कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्ण भवति एवं. स. भमवान् धर्मध्यानकोष्ठमनुप्रविश्य, इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः । संवरेण.तपसा ध्यानेन आत्मानं भावयन्-वासयन् विहरति-तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्माद् ध्यानादनन्तरं, णं इति वाक्यालकारे, स आर्यजम्बुनामा उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि जाता-प्रवृत्ता श्रद्धा-इच्छा यस्य प्रष्टुः स जातश्रद्धः, यद्वा जाता श्रद्धा-इच्छा वक्ष्यः माणवस्तुतत्त्वपरिज्ञानं प्रति यस्य स जातश्रद्धः, तथा जातः संशयोऽस्येति जातसंशयः, तथा जातकुतूहलः-जातौत्सुक्य इत्यर्थः विश्वस्यापि वस्तुव्यतिकरस्याङ्गेषु कोऽन्योऽर्थो भगवताऽभिहितो भविष्यति कथं च तमहमवभोत्स्ये? इति.. ' उट्टाए उट्टेइ ' उत्थानमुत्था-ऊध्र्व वर्तनं तया उत्तिष्ठति, उत्थाय च ' अज्जसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ' त्ति विकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणादक्षिणपार्वादारभ्य परिभ्रमणतः ( पुनः ) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदधाति, कृत्वा च वन्दतेवाचा स्तौति, नमस्यति-कायेन प्रणमति, 'नच्चासन्ने नाइदूरे' उचिते देशे इत्यर्थः । ' सुस्लूसमाणे ' श्रोतुमिच्छन् । 'नमंसमाणे ' नमस्यन्-प्रणमन् । अभिभुखं 'पंजलिउडे' कृतप्राञ्जलिः । विनयेन उक्तलक्षणेन ‘पज्जुवासमाणे ' पर्युपासनां विदधान एवं इति वक्ष्यमाणप्रकारं ' वदासि 'ति अवादीत् ॥
[ पृ. ४ ] भगवता उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः, वो ऽध्ययनसमुदायः, तद्यथेत्यादिना पञ्च वर्गान् दर्शयति "निरयावलियाओ कप्पडिसयाओ पुष्फियाओ पुष्कचूलियाओ वण्हिदसाओ" त्ति प्रथमवो दशाध्ययनात्मकः प्रज्ञप्तः, अध्य
For Private and Personal Use Only