________________
Shri Mahavir Jain Aradhana Kendra
८
८
www.kobatirth.org
C
<
यावत्करणादिदं दृश्यं वज्जररिसहनारायणसंघयणे कणगपुलगनिघसपम्हगोरे' कनकस्य सुवर्णस्य ' पुलग ' त्ति यः पुलको - लवः तस्य यो निकषः - कषपट्टरेखालक्षणः तथा पम्हेति ' पद्मगर्भः तद्वत् यो गौरः स तथा; वृद्धव्याख्या तु - कनकस्य न लोहादेयः पुलकः- सारो वर्णातिशयः तत्प्रधानो यो निकष-रेखा तस्य यत् पक्ष्म - बहलत्वं तद्वद्यो गौरः स कनकपुलकनिकपपद्मगौरः 1 तथा उग्गतवे उग्रम्अप्रधृष्यं तपोऽस्येति कृत्वा । तत्ततवे ' तप्तं तापितं तपो येन स तप्ततपाः एवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति । तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु- हुताशन इव ज्वलत्तेजाः कर्मवनदाहकत्वात् । उदारः - प्रधानः घोरे घोरः - निर्घृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये । तथा 'घोरव्वर ' घोराणि - अन्यदुरनुचराणि व्रतानि यस्य स तथा । तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी । "संखित्त विउलतेयलेस्से" संक्षिप्ता - शरीरान्त निलीना विपुला -अनेकयोजन प्रमाणक्षेत्रा- श्रितवस्तुदद्दन समर्था तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभावा
,
"
६
उ
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
,
८
,
तेजोलेश्या (यस्य सः ) एवं गुणविशिष्टो जम्बुस्वामी भगवान् आर्यसुधर्मणः स्थवि . रस्य " अदूरसामंते " त्ति दूरं विप्रकर्षः सामन्तं समीपम्, उभयोरभावोऽदूर सामन्तं ( तस्मिन् ) नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः । कथं ? उड्ढजाणू शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यते ऊर्ध्वे जानुनी यस्य स ऊर्ध्वजानुः, अधःशिरा अधोमुखः : नोर्ध्व तिर्यग्वा निक्षिप्त-दृष्टिः, किं तु नियतम् भागनियमितदृष्टिरिति भावना | यावत्करणात् " झाणकोट्टोवगए ' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः,