________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं गुणप्रधानोऽपि, नवरं गुणाः-संयमगुणाः। 'करणचरणप्पहाणे' चारित्रप्रधानः । 'निग्गहप्पहाणे' निग्रहो-अनाचारप्रवृत्तनिषेधनम् । 'घोरबंभचेरवासी' घोरं च तत् ब्रह्मचर्य च अल्पसत्त्वैर्दुःखेन यदनुचर्यते तस्मिन् घोरब्रह्मचर्यवासी। 'उच्छृढसरीरे' 'उच्छूढं ' ति उज्झितमिव उज्झितं शरीरं तत्सत्कारं प्रति निःस्पृहत्वात् (येन) स तथा । 'चोद्दसपुची चउनाणोपमए ' चतुर्ज्ञानोपयोगतः-केवलवर्जज्ञानयुक्तः । केसि (शि )गणधरो मतिथुतावधिज्ञानत्रयोपेत इति दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्ध-सह संपरिवृतः समन्तात्परिकलितः पूर्वानुपूा न पश्चानुयूर्वा चेत्यर्थः क्रमेणेति हृदयं, चरन-संचरन् एतदेवाह-' गामाणुगाम दुइ. ज्जमाणे" त्ति ग्रामानुग्रामश्च विवक्षितग्रामादनन्तरग्रामो ग्रामानुग्राम तत् द्रवन्-गच्छन्-एकस्माद् ग्रामादनन्तरग्राममनुल्लङ्घयन्नित्यर्थः, अनेनाप्रतिवद्धं विहारमाह । तत्राप्यौत्सुक्याभावमाह-'सुहसुहेणं विहरमाणे' सुखसुखेन-शरीरखेदाभावेन संयमाऽऽबाधाभावेन च विहरन् ग्रामादिषु वा तिष्ठन् । 'जेणेव ' त्ति यस्मिन्नेव देशे राजगृहं लगरं यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागत्य यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम् आवासम् अवगृह्य-अनु. ज्ञापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति-आस्ते स्म । 'परिसा निग्गय' त्ति परिषत्-श्रेणिकराजादिको लोकः निर्गता-निःसृता सुधर्मस्वामिधन्दनार्थम् । धर्मश्रवणानन्तरं " जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगय" त्ति यस्या दिशः सकाशात् प्रादुर्भूता-आगतेत्यर्थः तामेव दिशं प्रतिगता इति । तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बुनामाऽनगारः काश्यपगोत्रेण 'सत्तुस्सेहे' सप्तहस्तोच्छ्यः , 'समचउरंससंठाणसंठिए'
For Private and Personal Use Only