________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तवेदिकं "लाउल्लोइयमहिए" लाइयं-यद्भूमे छगणादिना उपलेपनम् , उल्लोइयं-कुडयमालानां सेटिकादिभिः समृष्टीकरणं, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथेति । तत्र च गुणशिलकचैत्ये अशोकवरपादपः-समस्ति । "तस्स णं हेट्ठा खंधासन्ने, एत्थ ण महं एगे पुढविसिलापट्टए पन्नत्ते, विक्खभायामसुप्पमाणे आईणगरुयबूरनवणीयतूलफासे" आजिनकं-चर्ममयं वस्त्रं,-रूतं-प्रतीतं, बूरो-वनस्पतिविशेषः, नवनीतं-म्रक्षणं, तृलम्-अर्कतूलं, तद्वत् स्पो यस्य स तथा कोऽर्थः ? कोमलस्पर्शयुक्तः । 'पासाईए जाव पडिरूवेत्ति । ते णं काले णं ' इत्यादि, ‘जाइसंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्; अन्यथा मातृकपक्षसंपन्नत्वंपुरुषमात्रस्यापि स्यात् इति नास्योत्कर्षः कश्चिदुक्तो भवेत् , उत्कर्षाभिधानार्थ चास्य विशेषणललामोपादानं चिकीर्षितमिति । एवं 'कुलसंपन्ने," नवरं कुलं-पैतृकः पक्षः । 'बलसंपन्ने" बलं-संहननविशेषसमुत्थः प्राणः । 'जहा केसि' त्ति केसि( शि वर्णको वाच्यः; स य “विणयसंपन्ने"लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा । " ओयंसी" आजो-मानसोऽवष्टम्भः तद्वान् ओजस्वी, तेजः-शरीरप्रभो तद्वान् तेजस्वी, वयो-वचनं सौभाग्याद्युपेतं यस्यास्तीति वचस्वी, “जयंसी ' यशस्वीख्यातिमान् , इह विशेषण चतुष्ठयेऽपिअनुस्वारः प्राकृतत्वात् । "जियकोहमाणमायालोभे" नवरं क्रोधादिजयः उदय-प्राप्तक्रोधादिविफलीकरणतोऽवसेयः । 'जीवियासामरणभयविप्पमुक्के' जीवितस्य-प्राणधारणस्य आशा-वाञ्छा मरणाच्च यद्भयं ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः । .' तवप्पहाणे' तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः ।
For Private and Personal Use Only