SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ - - निरयावलिकामा गता आन्दोलयति, अप्येकिकाः दन्तान्तरेषु नयति, अप्येकिका: शीकरण सापयति, अप्येकिका अनेकैः क्रीडनकैः क्रीडयति । ततः खलु चम्पायां नगर्यो शृङ्गाटक-त्रिक-चतुष्क-चबर-महापथ-पथेषु बहुजनोऽन्योऽन्यस्य एवमाख्याति यावत् प्ररूपयति-एवं खलु देवानुपिया ! वैहल्ल्यः कुमारः सेचनकेन गन्धहस्तिनाऽन्तःपुर० तदेव यावद् अनेको क्रीडनकैः क्रीडयति तदेष खलु वैहल्ल्यः कुमारो राज्यश्रीफलं प्रत्यनुभवन् विहरति, नो कणिको राजा। ततः खलु तस्याः पद्मावत्या देव्या अस्याः कथायाः लब्धार्थायाः सत्या अयमेतद्रूपो यावत् समुदपद्यत-'एवं खलु वैहल्ल्यः कुमारः सेचनकेन गन्धहस्तिना यावद् अनेकैः क्रीडनकैः क्रीडयति तदेष खलु वैहल्ल्यः कुमारो राज्यश्रीफलं प्रत्यनुभवन् विहरति नो कूणिको राजा, तत्किमस्माकं राज्येन वा यावज्जनपदेन वा यदि खलु अस्माकं सेचनको गन्धहस्ती नास्ति ?, तच्छ्रेयः खलु मम कणिकं राजानमेतमर्थ विज्ञपयितुम् ।। · इति कला एवं संप्रेक्षते, संप्रेक्ष्य यत्रैव कूणिको राजा तत्रैवोपागच्छति, उपागत्य करतल० यावदेवमवादी-एवं खलु स्वामिन ! वैहल्ल्या कुमारः सेचनकेन गन्धहस्तिना यावद् अनेकैः क्रोडनकैः क्रीडयति, तकि खलु स्वामिन् ! अस्माकं राज्येन वा यावत् जनपदेन वा, यदि खल अस्माकं सेचनको गन्धहस्ती नास्ति ? । ... ततः खलु स कूणिको राजा पद्मावत्या देव्या एतमथै नो आद्रियते. नो परिजानाति, तूष्णीकः संतिष्ठते । ततः खल सा पद्मावती देवी अभीक्ष्ण२ कुणिक राजानमेवमय विवपयति। For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy