________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
सुन्दरबोधिनी टोका चेल्लनाको श्रेणिकका उपालम्भ
संप्रेक्षते, संप्रेक्ष्य दासवेटीं शब्दयति शब्दयित्वा एवमवादीत् गच्छ खलु त्वं देवानुप्रिये ! एनं दारकमेकान्ते उत्कुरुटिकायामुज्झ ।
ततः खलु सा दासचेटी चेल्लनया देव्या एवमुक्ता सती करतल ० यावत् कृत्वा चेल्लनाया देव्या एनमर्थं विनयेन प्रतिगृणोति, प्रतिश्रुत्य तं दारकं करतलपुटेन गृह्णावि, गृहीत्वा यत्रैवाशोकवनिका तत्रैवोपागच्छति, उपागत्य तं दारकमेकान्ते उत्कुरुटिकायामुज्झति ।
ततः खलु तेन दारकेण एकान्ते उत्कुरुटिकायामुज्झितेन सता साऽशोकवनिका उद्योतिता चाप्यभवत् ।
ततः खलु स श्रेणिको राजा अस्याः कथाया लब्धार्थः सन् यत्रैवाशोकवनिका तत्रैवोपागच्छति, उपागत्य तं दारकमेकान्ते उत्कुरुटिकायामुज्झितं पश्यति, दृष्ट्वा आशुरक्तः यावत् मिसिमिसीकुर्वन् तं दारकं करतलपुटेन गृह्णाति, गृहीत्वा यत्रैव चेल्लना देवी तत्रैवोपागच्छति, उपागत्य चेल्लनां देवीमुच्चावचाभिराक्रोशनाभिराक्रोशति, आनुश्य उच्चावचाभिर्निर्भर्त्सनाभिनिर्भर्त्सयति, निर्भर्त्स्य, एवमुद्धर्षणाभिरुद्धर्षयति, उदधय एवमवादीत - किमर्थं खलु त्वं मम पुत्रमेकान्ते उत्कुरुटिकायामुज्झयसि ? इति कृत्वा चेल्लनां देवीमुच्चावचशपथशापितां करोति, कृत्वा एवमवादीत्-त्वं खलु देवानुप्रिये ! एनं दारकमनुपूर्वेण संरक्षन्ती, संगोपयन्ती संवर्द्धय ।
ततः खलु सा चेल्लना देवी श्रेणिकेन राज्ञा एवमुक्ता सती लज्जिता व्रीडिता विड्डा करतलपरिगृहीतं श्रेणिकस्य राज्ञो विनयेन एतमर्थ प्रतिशृणोति, प्रतिश्रुत्य तं दारकमनुपूर्वेण दारकमनुपूर्वेण
संरक्षन्ती संगोपयन्ती
संवर्धयति ॥ ३६ ॥
For Private and Personal Use Only