________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादि चिन्तयश्चित्ते, स वैराग्यमुपागतः । उवाच चारणं साधु, सोहमस्म्यगडो गुरो!॥ २७५ ।। विषयेभ्यो विरक्तोऽहं, सक्तोऽहं तव वर्त्मनि । स्त्रीनाम्नोऽपि विभेम्युच्चैः, कृष्टासेरिव कातरः ॥२७६।। अमीपामग्रजस्याहं, घातकः कैतवादपि । तत्पापं क्षालयिष्यामि, त्वत्पादाराधनाधनः ।। २७७ ।। कुरु व्रतप्रसादेन, प्रसादं विशदाशय ! । प्रव्रज्या सर्वपापघ्नी, दात्री निर्वाणसम्पदाम् ॥ २७८ ॥ ततो भावं परिज्ञाय, साहसगतिसाधुना । प्रवाजिता पडप्येते, संवेगरसरङ्गिणः ॥ २७९ ॥ यथोदितं व्रतं कृत्वा, ते सर्वेऽपि समाहिताः । सुगतिं प्रापुरावृत्य, भावनां भवतारिणीम् ।। २८० ।। कलिकपटकोटिकूटा समेखला मदनबाणसम्वलिता । दूरस्था रम्यतरा क्षिति-धरराजीव रक्ताक्षी ॥२८१॥ वज्रकुण्डल ! लोलाक्षी-सङ्गं त्यज भज ज्ञताम् । देवान् यज जय द्वेष, नयात्मानं नयाध्वनि ॥२८२।। वज्रकुण्डल ऊचेऽथ निषम्यैनां महत्तम! | गर्त मम कथाभानो-नारीरूपं महत्तमः ॥ २८३ ॥ वनिताऽगडदत्तस्य, नाऽभून्मृत्यूद्यतस्य या । सान्यस्य स्यात्कथङ्कार, नारीप्रकृतिरस्थिरा ॥ २८४ ॥ एतावन्ति दिनान्यस्थाम्, यदहं रतिसागरे । मनः पाठीनवकूर्ण मत्रि-राज! क्षमम्ब तत् ।।२८५ ।। महामात्यं कुमाराणां, पितेव परशिक्षया । गुरुवद्गुरुवात्सल्यात् , साध्वाचारप्रदर्शनात् ॥ २८६ ।। अतः परं मया दः, परदारविवर्जनम् । सन्निधौ तत्रभवतो, भवतः सद्गुरोरिख ॥ २८७ ॥ वस्त्रायैः पूजयित्वामुं व्यसृजन्नरदेवभूः। उपदेशो हि पात्रेषु, वर्द्धतेऽम्बुनि तैलबत् ।। २८८ ॥
पञ्चमो भवः
अगडदत्तकथा
१ मत्स्यवत् ।
For Private and Personal Use Only