________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो मकः
PawaoXaxOXXXXXX
अन्येधुर्नुपभूः कोऽपि, पल्यामागाद्रथस्थितः । साधं तेन महायुद्ध , प्रावर्तत शराशरि ।। २४७ ॥ असमर्थो बलाञ्जेतुं, कुमारश्छलकूटधीः । रथाग्रे स्थापयामास प्रेयसीं सुभगाकृतिम् ॥ २४८ ॥ तद्गतप्रीतदृग्द्वन्द्वः, स मर्मणि हतः शरैः । सुजेया लोहजा बाणा दुर्जेया नेत्रजाः पुनः ॥२४९॥ अथ राजसुतस्तूर्णस्तूर्ण पूर्णमनोरथः । गतः शङ्खपुरे स्वस्मिंश्चिरेण कासिते मुदा ।। २५० ॥ पल्लीशं भ्रातरः पश्चः ज्येष्ठं दृष्ट्वाऽथ 'संस्थितम् । तत्प्रहर्तुमधावन्त, रथमार्गानुसारतः ॥ २५१ ।। दृष्ट्वा शहपुरे राज-नन्दनं पत्तिमध्यगम् । पश्यन्तो मारणे छिद्रं, चिरं तस्थुर्यथा तथा ॥ २५२॥ अन्यदोद्यानदेवीको-मध्यगो राजनन्दनः। एकाकी ददृशे रात्रा-वमीभिः खड्गपाणिभिः॥ २५३ ।। इतो ध्वान्ते ततो राज-नन्दनो वह्वये गतः । आसीना अभवन्नेते, पूर्व देवमहौकसि ॥ २५४ ॥ पूर्व छन्नः कृतो दीप,-एतज्येष्ठेन बन्धुना । सम्प्राप्यावसरं देव-मन्दिरान्तःस्फुटीकृतः ॥ २५५॥ ततस्तस्य कुरङ्गाक्ष्या, दीपोद्योतेन सर्पता । दृष्टः सेष पुमान्देह-श्रिया खर्गीव भूचरः ॥ २५६॥ तया निभालितः प्रेम-पूर्णया सुचिरं दृशा । वैरीव तत्पुरं कामो ज्वालयामासिवानथ ॥ २५७ ॥ तयासौ भणितः कामं, कामसन्तप्तगात्रया । अङ्गं मनोभवावेश-विवशं मे निरूपय ।। २५८ ॥ किमिद सुतनो! वक्षि ?, मम प्राणान्तकारकम् । ज्ञाता चेवल्लभस्तेऽद्य, भवेतिक क्षेममावयोः ॥२५९।। तयोचे भद्र ! मा कार्षी-र्भीरुत्वं भीरुसम्भवम् । अमुं व्यापादयिष्यामि, पश्यतस्तव खगतः ॥२६०॥ मृतम् ।
नगडदत्तस्था
For Private and Personal Use Only