SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि चरितम् ॥१५६॥ सच्चरित्रमतः पुत्र !, यदि सत्यं जिजीविषुः । कदर्थनीया नैवैषा, रेखा योषित्सु शीलतः ॥ ३१२॥ Xअष्टमः सर्गः इत्युक्तो मातृवाभत्रै-मुक्तरागविषोऽभवत् । अदान्मूल्येन कस्मैचित्, सार्थनाथाय गच्छते ॥३१३॥ तेनापि तद्वदूचे सा, रागान्धीकृतचेतसा । नानुमेने वचस्तस्य, यावदेषा सतीतमा ॥३१४ ॥ तावत्सा ताडिता तद्वत्, कसाघातैर्मुहुर्मुहुः । यत्र वा तत्र वा यातु, वेदनीयं तु वेद्यते ॥३१५॥ तयाऽप्यूचे गुणज्ञोऽसि, विरुद्धं किं प्रजल्पसि ? । लोकद्वयविरुद्धं हि, किं कुर्वन्ति विवेकिनः ?॥३१६॥ (यतः-) आदरः परदारेषु, खदाराणां विवर्जनम् । भवेत्पिपतिपोर्जन्तो-नरके नर ! केवलम् ॥३१७॥ वचस्तस्य तया सद्यः, किश्चिन्न प्रत्यपद्यत । ततो गौरिव तेनायं, नीता दीपान्तरं निजम् ॥ ३१८॥ नवमो भवः तस्मिन् कम्बलरत्नाख्य-वणिजा द्रविणादहो । विक्रीता सोऽपि तां दृष्ट्वा, विद्धो मन्मथमार्गणैः ॥३१९॥ सुकोमल अभाणि तेन तद्वत्सा, ही शीलं दुःखपालनम् । व्रतेषु शीलभूपालः, सच्चामात्यपरिस्कृतः ॥ ३२० ॥ कथानकम् तया कम्बलरत्नस्य, वचने वितथीकृते । व्यसनं यदभृदस्या-स्तद्वाचामप्यगोचरम् ॥ ३२१ ॥ आकृष्याकृष्य तद्देहा-द्रक्तमेष नराधमः । अपूरिष्ट सदा कुण्डं कृमिरागविधित्सया ॥ ३२२ ॥ सखीं नरकदुःखस्य, स्मारिणीं क्रोधरक्षसः। सारिणीं मानकन्दल्या, सा पीडामन्वभूच्चिरम् ॥ ३२३ ॥ सातत्यं रुधिरस्रावात् , सञ्जाततनुपाण्डिमा । कौसुम्भशाटिकेवेयं, चौतरागाऽभवद् भृशम् ॥ ३२४ ॥ ॥१५६॥ ततः कथानियोगेन, तद्धाता राजशासनात् । कूलं तत्पारसं नाम, प्रेमनुन्न इवाऽऽामत् ।। ३२५ ।। काकतालीययोगेन, मलक्लिन्नकलेवराम् । एनामेष चकाराऽथ, बलाल्लोचनगोचराम् ॥ ३२६ ॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy