SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिपद्यस्व पत्नीत्वमस्य निःशङ्किताशया । भुङ्क्ष्व भोगांव साम्राज्यं, पल्यैश्वर्य यदृच्छया ॥२९७॥ Starsi माह चाम्बैतत्, घटकोटिं प्रयाति किम् १ । वचस्तासामिदं युक्तं कुलं यासां मलीमसम् ॥२९८॥ ( यतः - ) पद्मिनी न निशानाथं, दिनेशं न कुमुद्वती। आकाङ्क्षति लताऽप्येवं, किं पुनः कुलयोषितः १ ॥ २९९ ॥ कुलं यातु बलं यातु, यातु वित्तश्च सर्वथा । एकं शीलं तु मा यातु, मूलं सुगतिशाखिनः ।। ३०० ॥ ऊचे पल्लिपमाताऽथ, सत्यमुक्तं त्वयेदृशम् । किञ्चित्कालं परं भद्रे !, अनुवर्तस्व ममात्मजम् ॥ ३०१ ॥ प्रायश्चित्तादिना शुद्धिं भद्रे ! भूयो विधास्यसि । जीवन्प्राणी लभेतोचै - वञ्छितार्थसमर्थनम् ||३०२|| अथावादि तया भूयः, किं वाचोभिस्तवोदितैः १ । प्राणापहारतो दण्डो, भविता नाऽधिकः क्वचित् ॥ ३०३ ॥ सुशीलपावनामेना - मञ्चकारित भट्टिकाम् । ज्ञात्वा पल्लिपतेर्माता, स्वपुत्राय न्यवेदयत् ॥ ३०४ ॥ तच्छ्रुत्वा भ्रुकुटीभङ्ग भङ्गुरो नतकोटरः । एतस्या नाशयाम्यद्य, चिरोपाचं सतीव्रतम् ॥ ३०५ ॥ ब्रूवन्निति कशाघातै- स्ताडयामास निर्दयम् । सा पपात महीपीठे, च्छिन्नवल्ली मूलतः ॥ ३०६ ॥ ततो रुधिरसेकार्त्ता, रेणुकामण्डितामिव । विलोक्य जननी तस्य, जगादेति मिताक्षरम् ॥ ३०७ ॥ आः पाप ! पापिनामद्य, किमीदृक्षं विधास्यसि ? | नही दीनेषु हीनेषु, प्रहरन्ति मनीषिणः ॥ ३०८ ॥ इति ब्रुवाणया तस्य, कराभ्यां चर्मयष्टिका । एतया सा समाकृष्य, दूरतो विहिता क्षणात् ॥ ३०९ ॥ वीजिता व्यजनेनैषा, सीकरासारवर्षिणा । लब्धोच्छ्रासाऽभवद् वल्ली, शुष्काऽपि मधुना यथा ॥ ३१०॥ ततः पल्लिपतिर्भूयो, मात्राऽवाचि सुविस्मितम् । सतीनां सुत ! सामर्थ्य, देशघाताय जायते ।। ३११ ।। For Private and Personal Use Only नवमो भवः सुकोशल कथानकम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy