________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
साधुकीर्तिधरोऽन्येयुः, साकेतपुरमभ्यगात् । भिक्षायै प्रविवेशाऽथ, युगमात्रेक्षणेक्षणः ॥ २०७॥ सहदेवी गवाक्षस्था, निरक्षत मुनि प्रियम् । अकुप्यद्दर्शनात्तस्मै, तं पुरान्निरवासयत् ॥ २०८॥ .. अन्येऽपि लिङ्गिनो जैना, हठानिर्वासिता पुरात् । विष्लावयन्तु मा लोक-मिति ध्यात्वा तयाचिरम् ॥२०९॥ तं वृत्तान्तं समाकर्ण्य, सुकोशलनरेशितुः। रुरोद करुणं धात्री, रोदयन्ति परानपि ॥२१॥ ऊचे सुकोशलो मातः!, कथं रोदिषि बालवत् । वद्विप्रियकरं हन्मि, हेतुमादिश रोदने ॥२१॥ अथोचे धात्रिका धात्री-धवपुङ्गव! मां प्रति । न कोऽपि विप्रियं कर्ता, राजशासनमीतितः ॥ २१२ ॥ परं कीर्तिधरो राजा, गृहीतश्रमणव्रतः । अनाथ इव त्वत्पुर्या, देव्या निर्वासितो हठात् ॥ २१३ ॥ न ममापि सुतोमुष्य, दर्शनाद्भवमीरुधीः । गृह्णात्वत्र परिव्रज्यां, परलोकार्थसाधिनीम् ।। २१४ ॥ ध्यात्वेति क्षुधितः साधुः, सहदेव्या दुराशयात् । निर्भय॑मानः पुरुष-विमुक्तो नगरीबहिः ॥२१५॥ सत्पुत्र! तव वंशे ये- ऽभवन्भूमिभुजः परे । ते सर्वेऽपि महीं भुक्त्वा, परिवज्यामुपागताः॥२१६॥ अनेन हेतुना देव!, तव माता पुरात्तव । न ह्यागन्तुं ददात्येषा, कृत्वा कूटोत्तरावलीम् ॥ २१७ ॥ विज्ञायेदं कुलीनात्मा, च्छन्नस्छन्नः सुकोशलः । अगान्मुनिपितुः पार्थे, ववन्दे परया मुदा ॥२१॥ कीर्तिधरमुवाचाऽथ, भूमिनाथसुकोशलः। आदीप्ते भवसंस्त्याये, महामोहकृशानुना ॥ २१९ ॥ मां निक्षिप्य क्षमागार! स्वयं नष्टोऽसि सत्वरम् । प्रवृष्टोऽसि परिव्रज्या-मयसौधे मनोहरे ॥ २२०॥ तस्मादाकृष राजर्षे !, पिता चेदसि वत्सलः । भवेदपत्यं दुर्जातं, पितरौ हि प्रियङ्करौ ॥२२१॥
सुकोशक कथानकम्
For Private and Personal Use Only