SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥९ ॥ विहादः । ऊचेचामुंगा चमत्कारी, नि पुरुष आयय KOKeXOXOXOXOXOXOXOXOXON ततो गत्वा गुरुं नत्वा, राज्ञस्तवृत्तमाख्यत । इतः सेनापतेर्लेखपाणिः पुरुष आययौ ॥ २३१ ।। खरूपं तस्य विज्ञाय, लक्षमेकं ददौ नृपः । द्विजस्वान्ते चमत्कारो, नितरामजनि स्फुटः ॥ २३२ ॥ राजापि सत्वरं सूरेः, पार्श्वेगात्सपरिच्छदः। ऊचे चामुं गुरो! शैक्षं, कुरु कृत्वा व्यवस्थितिम् ॥ २३३ ॥ ऊचे सरिरथ ब्रूत, व्यवस्थां क्षितिवल्लभः । ऊचेऽसौ यावदेषोत्र, चारित्री प्राणिति स्फुटम् ।। २३४ ॥ तावत्पूज्यैर्न गन्तव्यं, स्थातव्यमिह सुस्थिरैः। शिवोपकारवृद्धयर्थ-मामेत्यूचे मुनीश्वरः ॥ २३५ ॥ शिवकेतुः प्रवबाजा - नुज्ञातो मणिमालिना । चक्रे च त्रिविधाहार-परिहारं यथाविधि ॥ २३६ ।। महर्षीणां चरित्रेषु, क्षामणासु च पाप्मनाम् । मरिणा कीर्त्यमानासु, शिवकेतुर्महातपाः॥ २३७॥ विशुद्धीभूतचेतस्को, द्वाविंशतितमे दिने । परमेष्ठिनमस्कार, ध्यायनिधनमभ्यगात् ।। २३८॥ युग्मम् ॥ ऊर्ध्वदेहिककृत्यानि, चक्रे साधोः क्षितीश्वरः । क्रमाद्विगतशोकोऽभूदुपदेशान्मुनीशितुः ।। २३९ ॥ महीशो विश्वभूतिश्च, प्रपन्नश्रावकव्रतो । जग्मतुः प्रथमं कल्प-मनल्पत्रिदशालयम् ।। २४० ॥ इति प्रथमो भवः। ततश्च शिवजीवोऽपि, कल्पे सौधर्मशासिते । विमाने च दुमावर्ते, सिद्धायतनसुन्दरे ॥ २४१॥ अनेककिङ्किणीक्वाण - शब्दिताम्बरमण्डपे। गुरुण्यसावुपपाद - शय्यायां समजायत ॥२४२॥ [युग्मम् ] अन्तर्मुहूर्तनिष्पन्नः सम्पन्नोऽवधिवन्धुरः । अचिन्त्यशक्तिविस्फूर्तिः, सर्वाङ्गीणविभूषणः ॥ २४३ ॥ अणिमादिगुणैमूतः, पुण्यैरिव विभूषितः । कामरूपी सुसंस्थानो, विमुक्तः सप्तधातुभिः ॥ २४४ ॥ द्वितीयो भवः ॥९॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy