SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्ग: श्रीमुनिसुव्रतस्वामि चरितम् ॥१२९॥ XXXXXXXXXXX सोऽप्युवाच महीनेत -श्चित्तशुद्धिविवेकिना । विधातव्या किमन्येन ?, बाह्याचारेण चारुणा ॥६७५॥ वक्रामुक्तिमिमां वीक्ष्याऽमुष्योवाच जनेश्वरः । निरीक्ष्यतान्तरामस्य, वेषाद्यं तु ममाऽग्रतः॥ ६७६ ॥ यावद्दक्षैः क्षणाचक्रे, वेषाऽपनयनं ततः । तावत्कङ्कमयी दृष्टा, कर्तिकोरुनियत्रिता ॥ ६७७॥ भाषितः सचिवो राज्ञा, तव साधर्मिकः खलु । न कस्यापि विधातव्यः, प्रत्ययो हितमिच्छुना॥६७८॥ निग्रहस्थानमाप्तोऽपि, न हतोऽसि मयाऽधुना। एकोऽपराधः सर्वस्य, क्षन्तव्य इति यच्छुतिः॥६७९॥ एवमुक्तवति क्षमापे, भयविभ्रान्तमानसः। सचिवोमुच्यत प्राणै-हि राजार्थविनाशकृत् ॥६८०॥ राजाऽपि चिरमादृत्य, सम्यक्त्वं च यथाविधि । अवाप सुगतिं तस्य, भाविनी निवृतिस्ततः ॥६८१॥ यथाऽनेन परं तत्त्वं, मन्नितिलकमत्रिणा । दूषितं न तथाप्यन्यै -र्न सारमस्त्यतः परम् ॥ ६८२ ॥ श्रुत्वेदं सातिचार जिनपतिगदितं मूलसूत्रं गुणानां, भूमीपालो परेऽपि प्रमुदितमनसः प्राप्य सम्यक्त्वरत्नम् । वन्दित्वा तीर्थनाथं पुनरपि विनयाद्भावयन्तो जिनोतं, जग्मुः स्वं स्वं निवासं हृदि परममुदं विभ्रतः कोटिरूपाम ।। ६८३॥ 8XOXOXOXXXXXXXX नवमो भवः संस्तवदोषे मनितिलक दृष्टान्तः nameyamare इत्याचार्यश्रीविनयचन्द्रविरचिते थीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाङ्के सम्यक्त्वप्रशंसातिचारेषु चम्पकमाला- धनपाल - जितशत्रु-नृपति-धर्मदेव -ऋषिदत्ता-मनितिलक - कथानकगर्भितोऽष्टमभवच्यावर्णनो नाम षष्ठः सर्गः समाप्तः ॥छ।। ग्रन्थानम् मूलतो ॥३६९४॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy