________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामि
चरितम्
॥ १२८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिंहासनसमासीन - मात्मानं दृष्टवान्नृपः । पुरस्ताच्च भटान् सर्वान् कुर्वाणान्नाटकं क्षणम् ॥ ६४५ ॥ इत्यद्भुतमदो वीक्ष्य, क्षोणीशो मति सागरम् । उवाच किमिदं जातं, सर्वथाऽऽश्चर्यचित्रितम् ।। ६४६ ॥ मयेन्द्रजालिनाsनेन विहितं प्रीतये तव । न कोऽपि ज्ञानवित् क्वापि, न कोऽपि जलदोदयः ||६४७|| परमेष दृशां बन्धं, विज्ञाय जालकारकः । अत्यद्भुतं चकारोचे - द्रव्यार्थी कुरुते न किम् ? || ६४८॥ यथा विघटितो मेघः, कुटुम्बमपि सत्तथा । यथा विद्युल्लता लोला, तथा श्रीरपि भूयसी ॥ ६४९ ॥ यथा सप्तभुवो व्याप्ताः पयः पूरैः समन्ततः । रोगोद्रेकैः क्षणाद्भूतैस्तथा देहाश्च देहिनाम् ॥ ६५० ॥ यत् ज्ञानी स गुरुस्तव - निःशेषार्थनिवेदकः । यद्वत्पोतो तं तद्वद् भवाम्भोनिधितारकम् ॥६५१ ॥ उक्त्वेति सर्वमेवेदं राज्ये विन्यस्य नन्दनम् । अजनिष्ट स राजर्षि-वैराग्यादुष्करं न हि ।। ६५२ ।। सोऽहमस्मि महीपालः विहरन्नत्र चाऽऽगमम् । मया कर्मक्षयाल्लेभे, तुर्थ ज्ञानं मनोहरम् ॥ ६५३ ॥ अथोवाच नलो राजा, भवतश्चरितश्रुतेः । उत्पन्नं मम वैराग्यं, गुरुसङ्गान्न किम्भवेत् ? ।। ६५४ ॥ परं राज्यमहं त्यक्तुं नेच्छामि स्मरशासनः । सुकरः कथ्यतां कोऽपि, धर्म्मः शर्मकरो मम ।। ६५५ ॥ अथोवाच मुनी राजन् ! गृह्यतां दर्शनं वरम् । यत्रार्हदेवतं साधु-गुरुस्तत्त्वं जिनोदितम् ॥ ६५६ ॥ शङ्का - काङ्क्षा - विचिकित्सा - परपाखण्डशंसनम् । संस्तवश्चेति पञ्चाऽपि दोषा हेया विवेकिना || ६५७ || श्रुत्वेत्युभौ विनम्राङ्गौ, प्रतिपन्नौ सुदर्शनम् । यतो धर्मस्य तन्मूलं, परकूलं भवाम्बुधेः ।। ६५८ ।। आचष्टे म महीनाथो, नाथ ! कोऽयं वनेचरः । कारितं येन मे खामिंस्त्वया साकं सुदर्शनम् ||६५९ ॥
For Private and Personal Use Only
*CXCXCXXXX
षष्ठः सर्गः
नवमो भवः संस्तवदोषे मनितिलकदृष्टान्तः
॥ १२८ ॥