SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौधर्माद्याः सुराधीशा-स्तत्रैयुर्जिनभक्तितः । सम्यग्दर्शनसंशुद्ध्यै, भावनातः प्रभावतः ॥ ३०६ ॥ दैवं सङ्गीतकं कान्तं, वीक्षमाण उपासकः । मयोऽपि त्रिदशं मन्ये, जाताऽनिमेषलोचनः ॥ ३०७॥ क्षणमष्टाहिकां वीक्ष्य, श्रावस्त्यामगमत्सुधीः । धर्मदेवाऽभिधं मित्रं, समाजयितुमाययौ ॥३०८॥ दैवं परिमलं प्राप्य, मर्त्यलोकेऽप्यसम्भवि । धर्मदेव उवाचाऽथ, कुतः परिमलस्तब ? ॥ ३०९ ॥ नन्दीश्वरस्वरूपं स, जगाद प्रमदाऽऽकरम् । किं गोप्यमस्ति मित्रेषु, सर्वकार्याऽर्थकारिषु ॥३१॥ धर्मदेव उवाचाऽथ, तां विद्यां मे निवेदय । यथाऽहं यामि तं द्वीपं, त्वयेव सुगुणानघ। ॥ ३११॥ धर्मदेव ! परं विद्या, साधिता चामितप्रदा । हन्त तत्साधना भद्र, दुःसाध्या धेहि मानसे ॥३१२॥ धर्मदेवोऽथ सानन्द-मूचे दुःखावहं तु किम् ? । यावन्न चिन्त्यते ताव- दुर्लच्यो मकराकरः ॥३१३॥ सुप्रसादमना ! ब्रूहि, विद्यासाधनमद्भुतम् । यदि ते सत्यतो मैत्र्यं, पारतव्यविवर्जितम् ।। ३१४ ॥ श्राद्धः स्माऽऽह विशुद्धात्मा, भूतेष्टायां महानिशि। एकाकिना श्मशानान्त-र्गत्वा कृत्वा बलिक्रियाम् ।।३१५॥ पूरयित्वा भुवं खातां, ज्वलद्भिः खदिरोल्मुकैः । पदाष्टकमनोहारि, तरौ बवा च शिक्यकम् ॥३१६॥ स्मृत्वा मत्रं पवित्राङ्गः, सोऽष्टोत्तरशतोदितः । एकपादस्त्वया छेद्यः, सद्यः सचवता सता॥३१७॥ ॥त्रिभिर्विशेषकम् ॥ ओमेवमुदिते तेन, धर्माय दददे च ताम् । नाऽदेयं नाम किं लोके, पुंसां दाक्षिण्यशालिनाम् १ ॥३१८॥ समग्रामर्थ्यसामग्री, कृत्वोदितमहानिशि । एकाकी नगरीबाह्ये, श्मशानशतभीषणे ॥ ३१९॥ नवमो भवः विचिकित्सायो धर्मदेवकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy