SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः श्रीमुनिसुव्रतस्वामिचरितम् सर्गः नृपादेशादसौ क्षिप्त-स्तलाध्यक्षेण चारके । न भवेदन्यथाभावः, पूर्वोपार्जितकर्मणाम् ॥१४४॥ (यतः-) “यस्यां यस्यामवस्थायां, यद्यत्कर्म करोति यः। तस्यां तस्यामवस्थायां, तत्तत्फलमवाप्नुते" ॥१४५॥ ततः पद्मा चिरं तस्थौ, चैत्ये पत्युः समागमम् । आकासन्ती रुदत्युच्चैः, मूर्च्छन्ती विललाप च ॥१४६।। इतो धनावहः श्रेष्ठी, तत्रागादेवपूजने । रुदती सुदतीं दृष्ट्वा-वादीदस्मि पिता तव ॥ १४७॥ कथमेकाकिनी पुत्रि! कस्मादत्र समागता? । इति ब्रूहि ममाशेष, भियं मुक्त्वा यथातथम् ॥१४८।। अथावोचत पद्माक्षी, पद्मा पद्मानना सती । मेघवाहनकान्ताऽहम् , रणभूपालनन्दिनी ॥ १४९ ॥ दैवाद्राज्यपरिभ्रष्टा, महाकष्टेन पूरिता । अभ्यागां कूलिनीकूलं, पत्या जनक ! सम्प्रति ॥ १५० ॥ तटिनीतटतो भ्रष्टं, तदा रत्नसमुद्कम् । अवाप वल्लभो मेघ-स्तद्विक्रेतुं परन्तपः॥ १५१ ।। गतस्य सुचिरःकाल -स्तस्याभूत् करुणापर! । प्रायः खजनचेतांसि, रिष्टाऽऽशङ्कीनि सर्वदा ॥१५२।। ततः सकरुणं श्रेष्ठी, न्यगदत् पुत्रि! साम्प्रतम् । जामाता मामको मेघ - वाहनः सुभटैधृतः ॥१५३॥ भोजराजाभिधानेनाङ्कितां रत्नावली, सुते।। विक्रीणन् दस्युवद्वद्धो नाशो भाव्यस्य किं भवेत् ॥१५॥ अधृति मा कृथा वत्से ! मोचयिष्यामि तं खलु । कोटिं दत्त्वापि हेनो हि, वित्तं दुःखापहारकृत् ॥१५५।। आगच्छ स्वेच्छया तन्वि! मया साकं गृहे मम । सत्यप्येकाकिनी रामा, भवेद्वाच्येत दूषिता ॥१५६॥ एनां धनावहः श्रेष्ठी गृहे निन्ये विनीतधीः । स्वयं राजकुलं प्राप नातः कालमुपेक्षते ॥ १५७॥ इतश्च भूपतेः पुत्री, सोमा सोमानना ततः। उपोद्यानमभिप्राप, पुष्पधन्वनमस्यया ॥ १५८ ॥ प्रथमः भवः मेघवाहन For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy