SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विलापमिति कुर्वाणा, चेटी राज्ञः पुरोधसा । न्यवार्यततरां पुत्री!, मा रोदीस्त्वमदीनगीः॥ ४१२ ॥ तव पुत्रः क्षितेः पालो, भवितात्र विनिश्चितम् । यद्भाव्यं तद्भवत्येव, दैवात् कोऽपि बली नहि ॥४१३॥ इति तेनोदितं श्रुत्वा, सा चक्रे नितरां मुदम् । आशया जीव्यते हन्त, न तु पञ्चाशतात् (?) क्वचित् ॥४१४॥ इति विभातकालोऽभूत्, ध्वान्तप्रस्थानडिण्डिमः । अगादितो वरोद्यानं, सप्रियः प्रातिहारकः ॥४१५।। प्रारब्धरवरोलम्ब, मञ्जरीपिञ्जरान्तरम् । प्रेक्ष्य रामा वराऽजाम, जगाद दयितं प्रति ॥ ४१६ ॥ प्रिय! प्रेमदृशोद्यानं, निरीक्षख प्रियङ्करम् । शुष्कः पुराऽयमारामः, साम्प्रतं शावलः कथम् ॥ ४१७ ॥ अथोचे मालिको जाये !, सहकारतरोरधः । विमुक्तं केनचिद्वालं, पश्यै तस्मात् पुरावनम् ॥ ४१८॥ पुष्पलावी करकोडे, तं चकार निधानवत् । ततः प्रश्रविनी साऽभू-भाग्यैर्भवति किं नवा?॥ ४१९ ॥ स्तन्यं स पायितो बालः, कोमलालापपेशलम् । छन्नं नीतो गृहे स्वीये, सुवर्णपुरुषो यथा ॥ ४२० ॥ गूढगर्भा मम प्राण-वल्लभेह शुभेऽहनि । प्रसूता दारकं कान्त -मिति लोके न्यगद्यते ॥ ४२१॥ सापायायां तमखिन्या-मेकाकी बालकः कथम् ? | जीवितोऽघट इत्याख्यां, रचयांश्चकृवान् पिता ॥४२२।। स पुपोष वपुः कान्त्या, सद्गुणैरपि भूरिभिः । चिक्रीड विविधैः क्रीडा-चक्रैर्वाल्यक्रियोचितैः ॥४२३॥ प्रातः प्रातः प्रसूनानि, प्रत्यहं प्रातिहारकः । उपदायै महीभर्तुश्चक्रे सुघटिताञ्जलिः ॥ ४२४ ॥ कटीतटे निवेश्याऽमुं, बालकं पुष्पलाविका । अन्येयुः संसदि प्रात-रगात् पुष्पकरण्डभृत् ॥ ४२५ ॥ सभ्यानां स्मेरनेत्राणि, निपेतुस्तत्र वालके । सौन्दर्यस्खैकपात्रं हि लोभयत्येव लोचनम् ॥ ४२६ ॥ नवमो भवः जिनदेशनायां तपोधमें अघटकुमारवृत्तान्तम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy