SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् तृतीया सर्ग: ॥ ५९॥ तृतीयः सर्गः। इत्यष्टकं भवानां जगदे, जगदीशितुर्जिनेन्द्रस्य । उद्धृत्य समयजलधे-गुरूपदेशेन ससिसम् ॥१॥ चके कैश्चन चरितं भवत्रयो जिनवरस्य सङ्क्षिप्तम् । प्रायःसङ्केपरुचिर्भवतितरां जगति भव्यजनः ॥२॥ इक्ष्वाकुवंशप्रभवा जिनेशा,-द्वाविंशतिः साम्यलताऽवसंसाः। द्वौतीर्थनाथौ शुभमार्गसार्थों, जातौ चवंशे हरिनामधेये॥३॥ यस्मिन्वंशे विशुद्धाः, क्षितिपतितिलकाः पालयित्वाऽऽधिपत्यं तप्त्वा तीव्र तपोऽपि, प्रशमपरिणताः केऽप्यगुर्मोक्षसौधम् । केचित्सर्वार्थसिद्धिं त्रिदशवरगृहं, प्राप्य नित्या बभूवुः । तं वन्देऽहं जिनेन्द्रद्वय-जनिरुचिरं, भावतस्तत्त्वबुद्ध्या ॥ ४॥ कैटभरिपुबलभद्रौ, यस्मिन्वंशे बभूवतुः सुनरौ । चित्रैश्चरित्रचित्र-वर्या जगद्भित्तिरभ्राजि ॥५॥ तस्य श्रीहरिवंशस्य, प्रशंसां रचयाम्यहम् । येन मे परमानन्दः, प्रसर्पति मनोऽम्बुजे ॥ ६ ॥ चक्रधरकुले प्रान्त -कुले हीनकुलेऽपि च । उत्पद्यन्ते जिना नैव, किन्तु राजकुले वरे ॥७॥ ___ इतश्युत्वैप भगवान् , हरिवंशे किलाजनि । तेनैवमस्य वंशस्य, समुत्पत्तिर्निगद्यते ॥८॥ तथा हि जम्बूद्वीपेऽसिन् , क्षेत्रे दक्षिणभारते । कौशाम्बीनाम नगरी, वत्समण्डलमण्डनम् ॥ ९॥ सुमुखो भूपतिस्तत्र, विमुखः परयोषिति । सुमुखस्तेजसां धाम, सुसखः शेमुषीवरः ॥१०॥ KeXXXXXXXXXXX नवमो भवः हरिवंशोत्पनि ॥ ५९॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy