SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भव: KO-KOKOKEKOXOXOXOXOXXX पंद्रदेवि ! विधास्यामि, महायात्रां तवाऽऽग्रतः। लोकं च भोजयिष्यामि, नवैर्भोज्यैर्यथेच्छितम् ॥८९७॥ इत्युपयाचितवती, रुदती करुणवरैः । आययौ ब्राह्मणस्तत्र, जानानः कैतवं न हि ।। ८९८ ।। अन्यादृग्रूपभृत्पुत्री, तां वीक्ष्य ब्राह्मणोऽरुदत् । आः! किमेतत्समुत्पन्न-मविचार्य हृदाऽपि यत् ॥८९९॥ उपचारशतैरेषा, नाऽभूद्भपप्रियोपमा । सूचीः स्यात्किनु पाराऽग्नी ?, ताडनैरपि भूरिभिः ॥९०० ॥ यन्मया प्रथमं बाला, कुत्रापि न हि वेदिता | विधृता गर्भगेहेऽस्थान् , मृतेति बहुरुक्तिभिः ।। ९०१॥ तदद्य शोभनं जातं, भवितेयं नृपप्रिया । ध्यात्वेति मुमुदे चित्ते, बहिः शोकवती भृशम् ॥ ९०२ ॥ इतश्च भूपतित्विा , पुत्रोत्पत्तिमहोत्सवम् । प्रेषयामास मन्त्रीशं, सोऽप्यगाच्च स्थलाशयम् ॥ ९०३ ॥ द्विज! प्रेषय ते पुत्री-मुपराज सनन्दनाम् । इत्युक्तः प्रेषयामास, विप्रः पुत्रीं सपुत्रकाम् ।। ९०४॥ द्विज! क्वास्ति वरारामः?, सोऽवोचच्छिक्षितस्तया। उपकूपं पयःपानं, कुर्वन्नस्तीति चिन्तया ॥९०५॥ भवतां पाटलीपुत्रे, गतानामेकतः क्षणात् । अयमाराम आगन्ता, त्वं गच्छन् भव वर्त्मनि ।। ९०६ ॥ प्रसाददानैर्भूयिष्ठ-स्तया तस्याः परिच्छदः । निषिद्धो मत्रिणो नाऽऽख्य - दानं कार्मणमङ्गिनाम् ॥९०७॥ क्रमतः पाटलीपुत्र-मगमद्विजनन्दिनी । प्रवेशं कारयामास, भूपतिर्मश्चसश्चितम् ।। ९०८॥ राज्ञा कुमारो दृष्टश्व, स्वकुमार इव श्रिया । तुतुषे चेतसा सूनु-सङ्गाचेषां किमद्भुतम् ॥ ९०९॥ देवीरूपं निरीक्ष्योचे-विषाददलितोञ्जनि । आः! प्रिये! रूपमीक्षं, कथमेतदजायत? ॥ ९१०॥ . ग्रामदेवी!। २ कपटम् । FEXXXXXXXXXXX आरामशोभाकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy