________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
बिहणचरिताभिधे खण्डकाव्ये तु “गुर्जरदेशे अनहिलपत्तनाभिधे नगरे वैरिसिंहाभिधो नरपतिः, सुताराभिधा अवन्तिभूपालदुहिता तन्महिषी चासीत् । तयोरेका शशिकलानाम्नी कन्या समुत्पन्ना । सा च क्रमेण यौवनारूढातिरूपलावण्यवती पित्रोः सुतरामानन्ददायिनी बभूव । तत्पिता तु नित्यं तदध्यापनचिन्ताकुलस्तस्थौ । अस्मिन्नवसरे काश्मीरको बिह्नणकविस्तत्र समायातः । नीतच राजपुरोहितेनातिकोतुकान्महीपतिसमीपम् । वैरिसिंहमहीपतिरपि निरुपमं तद्विद्याचमत्कारमतिमधुरां च तदीयकवितामाकर्ण्य बहुसंपत्तिसमर्षणपूर्वकं साभ्यर्थनं च नियोजितवान्स्वदुहितुः शशिकलायाः पाठने । सापि पितुराज्ञानकलं बाल्योचितां शुकशारिकादिक्रीडामपहाय निजगुरुं बिहूणं शश्रूषमाणा विद्याभ्यासं कुर्वती स्वल्पैरेव दिवसः संस्कृतप्राकृतादि सर्वमधीतवती । एकदा चातिसुरभिगन्धसंचाररुचिरे पुष्पमालादिपरिष्कृते प्रासादे राजसुतां कामशास्त्रं पाठयन्कविरासीत् । तदा च रूपयौवनविद्याविनयादिगुणगणसंपन्ने तस्मिन्कविवरे बद्धभावा शशिलेखा नानाविधैविस्तस्य चित्तमात्मायत्तं चकार । देवनोदितः काममोहितश्च कविरपि प्राग्जन्मजायायास्तस्या गूढं गान्धर्वविधिना पाणि जग्राह । रञ्जयामास च मन्मथतन्त्रप्रतिपादिताभिर्बहुविधाभिः केलिभिविविधाभिच बन्धक्रियाभिनरेन्द्रपुत्रीम् । एवं सुखमनुभवतोस्तयोरतिक्रान्ते कियत्यप्यनेहसि रक्षापुरुषा राजसुतायास्तप्ततपनीयकान्तीन्यङ्गानि म्लायमानशिरीषकुसुमोपमानि संभोगचिराङ्कितानि चालोक्य, विज्ञाय च कथमपि सर्व गूढं चरितं राज्ञे निवेदयांचक्रुः । राजापि वनिपातोपमं तद्वृत्तमाकर्ण्य रोषेण प्रज्वलन्नादिदेश बिह्नणस्य शूलारोपणम् । तदेव घातुकपुरुषैः शूलाधिरोपणस्थलं नीतो बिलणः, उत्तश्च-'भो वध्य, संनिहितस्तवाधुना मृत्युः । स्मर निजामाराध्यदेवताम्' इति । बिहूणोऽपि राजसुतासक्तमना मृत्युभयमप्यगणयन् 'अद्यापि तां कनकचम्पकदामगौरी' इत्यादि शशिलेखास्मरणरूपां पञ्चाशिकां समुदीरितवान् । अत्रान्तरे प्राणप्रियाया निजसुतायास्तस्मिन्गामनुरागं निजमहिषीमुखादाकर्ण्य किंचिच्छिथिलितकोपो बिह्नणगुणगणवशीकृतस्वान्तैः पौरैः परिजनैमन्त्रिभिर्बोधितश्च ब्राह्मणवधभीरुनरेन्द्रः परमेश्वरेच्छामेव तादृशी मन्यमानो निवारयामास कविं शलारोपणात् । समर्पितवांश्च तदेव तस्मै शशिलेखाम्, बहुग्रामगजतुरगसुवर्णरत्नादिसमृद्धिं च । एवं मृत्युमुखान्मुक्तो बिह्रणकविनृपतिप्रसादमासाद्य शशिलेखया समं चिरं सुखमनुबभूव'' इति कथा वर्तते. परमियं कथा नाति विश्वासार्हा, यतो बिह्नणः निस्ताब्दीयैकादशशतकोत्तरार्धे कदमी. गन्परित्यज्य समागतस्तदा अनहिलपत्तने चालुक्यवंशोद्भवो भीमदेवसूनः कर्णराजो महीपतिरासीत्, न तु वैरिसिंहः. चापोत्कट(चावडा)वंशोद्भवो वैरिसिंहस्तु ९२० मिते
१. बिह्नणचरितप्रणेतुर्नाम नोपलभ्यते. २. 'वीरसिंहः' इत्यपि नाम पुस्तके वर्तते. ३. पुस्तकान्तरे 'सुनारी' इति पाठोऽस्ति, ४. कर्णराजस्य राज्यसमयस्तु १०७२ मि. तात्त्रिस्ताब्दादारभ्य १०१४ मितस्निस्ताब्दपर्यन्तमासीत्.
For Private and Personal Use Only