________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः । टी-अज्ज, अच्चरिअं अच्चरिअं ।
तके कक्कसवक्कोत्तिणिडरा तस्स भारई ।
जादा महुरसंदब्भे कव्वम्मि मिउला कहम् ॥ ५ ॥ (क) सूत्रधारः-(सपरिहासम् ।) त्वमेव तावत्कथय ।
क्षणं प्रणयकोपे त्वं निष्ठुरापि कथं पुनः ।
प्रेमार्द्रहृदया जाता मृदुलप्रकृतिः प्रिये ॥ ६ ॥ नटी-एक्कावि भारई कहं ककसा मिउला एत्ति पुच्छिदे कि अण्णं कहेहि अज्जो। (ख) सूत्रधारः-कोऽत्र विरोधः । उक्तं चैतेनैवै कविना
तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती ___ सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला । या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी
प्रेयोलालितयौवेते न मृदुला सा किं प्रसूनावलिः ॥ ७ ॥ नटी-कुसुमसिरीविअ मिउला से कइणो भारई । (ग) सूत्रधारः-किमुच्यते कुसुमश्रीरिवेति।।
व्याकोचप्रसवश्रियोऽपि मृदुला वाचामियं प्रक्रिया ___ मन्दस्यन्दिमरन्दतोऽपि मधुरस्तत्रायमर्थक्रमः । सौरभ्यादपि संमतं पुनरिह व्यङ्ग्यं पिकेभ्योऽप्यमी
मद्वा मधुरस्वराः कविरयं श्लाघ्यो वसन्तादपि ॥ ८ ॥ (क) आर्य, आश्चर्यमाश्चर्यम् ।
तर्के कर्कशवक्रोक्तिनिष्ठुरा तस्य भारती ।
जाता मधुरसंदर्भे काव्येऽपि मृदुला कथम् ॥ (ख) एकापि भारती कथं कर्कशा मृदुला चेति पृष्टे किमन्यत्कथयत्यार्यः । (ग) कुसुमश्रीरिव मृदुलास्य कवेर्भारती । १. 'कर्कशा' ख. २. 'चैतेन' ख, 'चैवैतेन' ग. ३. 'मधुरोक्ति' ख-ग. ४. 'कृन्तने' क. ५. 'यौवने' क-ग. ६. 'मिउला' ख-ग-पुस्तकयो स्ति. ७. 'संगतं' ख-ग. ८. 'काव्येऽस्मिन्' ख-ग.
For Private and Personal Use Only