________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गिरिचूडामणेभगवतश्चूडेश्वरस्य वसन्तोत्सवदर्शनसमुत्सुकाः सामान कल्याणमण्डपमध्यासते । तदेनानुपसृत्य चिरपरिचितलास्यकलाविले. नाय सविनयमभ्यर्थये । (पदान्तरं गत्वा सप्रश्रयमञ्जलि बदा।) भो भो. सकलकलाविदः सभासदः, एष भरताचार्यपुत्रः कलाप्रवीणो निजविद्याप्रदर्शनायात्रभवतामनुग्रहमाकाङ्क्षते । (आकाशे । कर्ण दत्त्वा ।) किं ब्रूथ'साधु भरताचार्यपुत्र, साधु । वयमपि चिरात्कस्यापि सरसकवेः सूक्तिमुतामणिग्रथितमभिनवं मिश्रभाणमवलोकयितुमुत्कण्ठिताः । तदधुना ताहशमेव कमपि भाणमभिनीय दर्शयतु भवान्' इति । अनुगृहीतोऽस्मि । (आत्मगतम् ।) अधुना विरलः खलु मिश्रभाणप्रचारः । विरलाश्च तथाविधाः कवयः । अयं गरीयान्खलु सामाजिकानामादेशः । तत्कथमिदमशक्यसंघटनमापतितम् । (स्मरणमभिनीय ।) अहो, मया प्रणयकुपितगृहिणीमनोविनोदव्यासक्तचित्तेन विस्मृतमपि सामाजिकानुग्रहेण पुनरनतिचिराभ्यस्तमिर्वं तादृशमेव रूपकं स्मर्यते । भवतु तावत् । गृहिणीमेवाहूय कथयामि । (प्रकाशम् ।) आर्य, इतस्तावत् ।
(प्रविश्य ।) नटी-एससि । को णिओओ आणवेदु अजो । (क) सूत्रधारः~-आर्ये,
कौडिन्यवंशरत्नस्य कवेः काशीपतेः कृतिः ।
मुकुन्दानन्दनामायं मिश्रभाणः प्रयुज्यते ॥ ४ ॥ तदत्र-(इत्य|क्ते ।)
(क) एषास्मि । को नियोग आज्ञापयत्वार्यः ।
१. 'तत्रभवतां' ख-ग. २. 'कस्यापि चिरात्' ख-ग. ३. 'तदद्य तादृशमपि' क. ४. 'सूत्रधारः-अनु-' ख. ५. 'संघन' ख-ग. ६. 'विस्मृततमं ख, "विस्मृततमः' ग. ७. 'पुनरपि' ख-ग. ८. 'एव' ख-ग. ९. 'आणवेदु अजो' ख-गपुस्तकयो स्ति. १० 'गोत्ररत्नस्य' ख.
For Private and Personal Use Only