SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ मुकुन्दानन्दभाणः। - ५३ शरणम् । कस्मै कथयामि । कथं गौरवं प्रतिपालयामि । कथं वा जनोपहासं परिहरामि । कथं वा बन्धुगृहेषु चरामि । कथमपनेतव्योऽपवादः । कथमवलोकनीया गुरवः । सर्वथा चोरं जारं वा व्यपदिशन्ति जनाः । किंच किमनुभूय महत्फलमेतावत्परिभवस्य भाजनतां नीतोऽस्मि, यदनुसंधाय सर्वमपि विस्मरामि । किं च । नालिङ्गितं धनपयोधरतुङ्गमङ्गं नास्वादितं मधुरमप्यधरप्रवालम् । नावातमाननपयोरुहमप्यमुष्या ___ हन्ताधुनैव कथमापतितोऽन्तरायः ॥ १८६ ॥ इत्यादिकमामीलितलोचनमेवाकलयन्कमपि पदशब्दमौषम् । श्रुत्वा चोन्मीलितनयनो द्वारसंधिविवरप्रविष्टैरायामिभिरिन्दुकान्तमयकुन्तानुकारिभिरर्धावमथितगेहान्धकारैरपरिस्फुटाकारविशेषमर्थजातमुपदर्शयद्रिनतिबहुभिरिन्दुपादैरनुमितचन्द्रोदयसमयपरिमाणः साशं च साशकं च कवाटविवरदत्तचक्षुरतिप्रौढचन्द्रातपतया निःशेषपरिस्फुटारूति दरफुल्लमल्लिकादामवलितकेशकलापं शशिकिरणपाशपरिवेष्टितमिव तिमिरपटलं शिरसा धारयन्तीम्, सदनवनविहारचैकोरकवलितचन्द्रिकातुच्छप्रदेशानच्छकपोलकान्तिपूरैरापूरयन्तीम, श्रुतिपथविलङ्घननङ्घालविपुलविलोचनवसतिसीमाविभागहेतुना सेतुनेव नासावंशेनालंकृताम्, गृहदीर्घिकाविकासिकुमुदकुवलयावलेपसारमपसारयितुमिव तत इतो दिक्षु कटाक्षान्विक्षिपन्तीम्, जाम्बूनदाम्बरपरिपिहितावयवतया सहोदरीमोहमिलितयेव सौदामिनीलतया कृताश्लेषां विमलनखमणिप्रतिबिम्बदम्भकृतपादपतनं वदनकमलपराजितं चन्द्रमसं पदक्रमापदेशेन पदे पदे विधूयावधीरयन्तीम्, गुरुकुचकुसुममञ्जरीमञ्जुलतनुलतापरिमलतरलपटीरपवमानमन्तरान्तरा पर्यस्तपटाञ्चलोच्चलनकपटेन पाणिकमलेन परिहरन्तीम्, प्राटषमिव घनपयोधराम्, शरदमिव प्रसन्नसरसाशयाम्, चन्द्ररेखामिव चारुसुधाधराम्, समुद्रसंपदमिव समकरस्फुरितकंकणा १. 'लोचनः' ख. २. 'इन्दुकान्तमयकान्तानु' ख. ३. 'चकोरकिशोरककवलितच्छन्नप्रदेशान् ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy