SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। राजा-वयस्य, जयति भ्रमरगुणः पुष्पबाण इक्षुचापो मन्मथः यस्यार्धनारीश्वररूपा विजयपताकेति पद्यार्थः । विदूषकः-(सशिरःकम्पम् ।) जुज्जइ । (क) द्वितीया कैरवणिद्दाभङ्गे चओरतिहाणिवारणे अ पडु । सो को वि जअउ देवो पेक्खन्तणिडालपुरुसमौलिमणी ॥४२॥(ख) विदूषकः-एदस्स पज्जस्स अत्थो वण्णीअदि । (ग) राजा-कथमिव । विदूषकः-कैरवविआसआरी चकोरतित्तिआरी भअवं तम्स तिणतस्स सिहामणी चन्दो जअइ ति । (घ) मत्री--सम्यगुक्तः पद्यार्थो भवता । विदूषकः-(सगर्वम् ।) पुत्वपजस्स वि मह अत्थबोधो जादो जेव्व । वअस्सेण अत्थो वण्णीअदि ण वेति तुहि ठिदम् । (ङ) मन्त्री-(विहस्य ।) कः संदेहः । विदूषकः-अमच्च, किं उवहससि मं । एदं सुणादु भवं । धरणीए विअ मह घरणीए अनक्खराए वाआए वि मह अत्थबोधो होइ । (च) (सर्वे हसन्ति ।) (क) युज्यते । (ख) कैरवनिद्राभङ्गे चकोरतृष्णानिवारणे च पटुः । स कोऽपि जयति देवः पश्यन्निटालपुरुपमौलिमणिः ॥ (ग) एतस्य पद्यस्यार्थो वर्ण्यते । (घ) कैरवविकासकारी चकोरतृप्तिकारी भगवान् तस्य त्रिनेत्रस्य शिखामणिश्चन्द्रो जयतीति । (ङ) पूर्वपद्यस्यापि ममार्थबोधो जात एव । वयस्येनार्थो वर्ण्यते न वेति तूष्णीं स्थितम् । (च) अमात्य, किमुपहससि माम् । एतच्छृणोतु भवान् । बरण्या इव मम गृहिण्या अनक्षराया वाचाया अपि ममार्थवोधो भवति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy