________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
नागरिकः-तर्हि शिक्षयतु भवानिमम् । किंकरः-अरे, कथय तथ्यम् । मृषावादिनस्तव वैदिकता राजशासनस्य न प्रतिरोधिनी । (इति कशामुद्यच्छति ।)
पुरुषः-मा ताडय । तथ्यं वदामि ।
नागरिकः-यदि तथ्यं वदसि तदा विज्ञानमन्त्रिणं दर्शयित्वा संभावयिष्यामि ।
किंकरः-प्रतीहार्या धारणया सह प्रासादमधिरूढो मन्त्री । तत्संनिधौ त्वमपि नेष्यसे ।
पुरुषः-(स्वगतम् ।) तथा चेन्मम दुर्लभमेव जीवितम् । (प्रकाशं भीतिमभिनीय ।) अभयं मे दीयतां यदि तथ्यमेव श्रोतव्यम् । (इति प्रणति ।)
नागरिक:-दत्तभयोऽसि । कथयात्मानम् । पुरुषः-(उत्थाय प्राञ्जलिः ।) हृद्रोगोऽस्मि । विसृज मां दयया । नागरिकः-चार एवायं वैदिकवेषमवलम्ब्यागतो दत्ताभयश्च । किंकरः-तर्हि किं कर्तव्यम् ।
नागरिक:-'सर्वमिदं राजकार्य त्वया कस्मैचिदपि न कथनीयम्' इति शपथं गृहीत्वा पुराबहिर्विसृज्यताम् । अथवा किमनेन वराकेण कथनीयम् । दत्ताभयोऽयमिति मन्त्रिणे निवेद्य कथंचिन्मोचयितव्यः । किंकरः-तथा करोमि । (इति निष्क्रान्तः ।)
(नेपथ्ये कुकुटध्वनिः ।) नागरिकः-(आकर्ण्य ।) कथं रजनीविरामः ।
(पुनर्नेपथ्ये) वैतालिक:पत्यावस्तं व्रजति विगलच्चञ्चरीकाञ्जनाश्रु
त्रासान्मीलद्दलदृशमितो रागमर्कक्रमेण । द्रागालिङ्गेदपि कुमुदिनीमित्यपन्यायशङ्की
कूकूशब्दं विसृजति जवात्कुक्कुटः पूर्वमेव ॥ ४ ।।
For Private and Personal Use Only