SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम्] कर्पूरमञ्जरी। तं किं पि अण्णमिह भूवलए णिमित्तं जेणाङ्गणाअ हिअआउ ण ओसरन्ति ॥ १६ ॥ विदूषकः- एव्वं णेदम् । किं पुण अण्णं पि मे कधेसु, जं कुमारत्तणे माणुसस्स अमणोजमेतस्सि वि तरुणत्तणे चङ्गत्तणं वडदि । राजा गुणं दुवे इह पवाअइणो जअम्मि जे देहणिम्मवणजोव्वणदाणदक्खा । एको घडेदि पढम कुमरीणमङ्ग मुक्कारिऊण पअडेइ पुणो दुदीओ ॥ १७ ॥ अपि च । किं लोचनैस्तरलैः किमाननेन चन्द्रोपमेन स्तनैः किमुन्नतैः । तत्किमप्यन्यमिह भूवलये निमित्तं येनाङ्गना हृदयान्नापसरन्ति । यूनामिति शेषः। विदूषकः एवमेतत् । किं पुनरन्यदपि मे कथय, यत्कुमारत्वे मानुषस्यामनोज्ञमेतस्मिन्नपि तारुण्ये चङ्गत्वं वर्धते । अमनोज्ञमङ्गादिकमिति शेषः । एतस्मिन्नमनोज्ञे। अपिभिन्नक्रमस्तारुण्य इत्यनन्तरं द्रष्टव्यः । यद्वा एतस्मिन्निति तारुण्य इत्यस्यैव विशेषणम् । एतस्मिन्नप्येतादृशोत्कर्षव. त्यपीत्यर्थः । तदा न भिन्नक्रमोऽपिः । राजा नूनं द्वाविह प्रजापती जगति . यौ देहनिर्माणयौवनदानदक्षौ । एको घटयति प्रथमं कुमरीणामङ्ग मुत्कीर्य प्रकटयति पुनर्द्वितीयः ।। अत्रोकीर्य प्रकटयतीत्यनेन निर्माणकर्तचतुर्मुखापेक्षया कामस्याधिक्यमभिव्यज्यते । तथा च यौवनेऽमनोज्ञस्यापि सौभाग्यवृद्धिर्भवतीति भावः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy