________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
काव्यमाला।
विदूषकः-एसा अहिमदजणपेसिदा लेहहत्था णं विअक्खणा आअदा।
राजा--(गन्धं सूचयित्वा ।) केंदईकुसुमगन्धो विअ आआदि । विचक्षणा-केदईदललेहो एब्ब एसो मह हत्थे । राजा-महुसमये कि केदईकुसुमं । विचक्षणा-भैरवाणंददिण्णमंतप्पहावेण देवीभवणुजाणे केदईलदाए एक्को दाव प्पसवो दंसिदो। तस्स ताए देवीए दलसंपुडेहिं अज हिंदोलअप्पभंजणीए चउत्थीए हरवल्लहा देवी अच्चिदा । अण्णं च दलसंपुडजुअलं उण कणिहबहिणीआए कप्पूरमंजरीए पसादीकिदं। तीए वि एकेण दलसंपुडेण भअवदी गोरी जेब्ब अच्चिदा । अण्णं च ।
केदईकुसुमपत्तसंपुडं पाहुडं तुअ सहीअ पेसिदं ।
एणणाहिमसिवण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥ ७ ॥ (इति लेखमर्पयति ।)
विदूषकःएषाभिमतजनप्रेषिता लेखहस्ता ननु विचक्षणा आगता । इदमेव संधिफलमित्याशयः । राजाकेतकीकुसुमगन्ध इवायाति । विचक्षणाकेतकीदललेख एवैष मम हस्ते । तस्यैष गन्ध इत्याशयः। राजामधुसमये किं केतकीकुसुमम् । विचक्षणा
भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनोद्याने केतकीलतयैकस्तावत्प्रसवो दार्शतः । तस्य तया देव्या दलसंपुटैरद्य हिन्दोलकप्रभञ्जन्यां चतुर्थी हरवल्लभा देवी अर्चिता । अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमअर्ये प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्येवार्चिता । अन्यच्च ।
केतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमषीवर्णशोभिना तच्छोकयुगलेन लाञ्छितम् ॥
For Private and Personal Use Only