________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
काव्यमाला।
कधं ह्राणधोविदविलेवणा समुत्तारितविहूसणा वि रमणिज्जा । अहवा।
जे रूअमुक्का वि विहूसयंति ताणं अलंकारवसेण सोहा । णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥ ३१ ॥ राजा-एदाए दाव एवं। लावण्णं णवजच्चकंचणणिहं णेत्ताण दीहत्तणं
कण्णेहिं खडिदं कओलफलआ दोखण्डचंदोवमा । एसा पंचसरेण सज्जिदधणूदंडेण रक्खिज्जए
जेणं सोसणमोहणप्पहुदिणो विज्झति मं मग्गणा ॥ ३२ ॥
प्रतिभाति यदङ्गेप लावण्यं तदिहोच्यते ॥' इति । उपमालंकारः । शृङ्गारस्य दीप्तत्वात् 'कान्तिर्दीप्तरसत्वं स्यात्' इति कान्तिर्वाक्यार्थगुण उक्तः । गाम्भीर्य च । विभावादिकं तु पूर्ववदेव ॥ कथं स्नानधौतविलेपना समुत्तारितविभूषणापि रमणीया । अथवा ।
या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा । निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ॥ यासां सौन्दर्य नास्ति तासामलंकारेण शोभा । यस्य तु मनुष्यस्य नैसर्गिकं सौन्दर्य तस्यालंकारैः कान्तिरुन्मीलति । न त्वसत्येव जायत इत्यर्थः । अत्र समाधिः । यथा काव्यप्रकाशे-'समाधिः सुकरं कार्य कारणान्तरयोगतः' ।
राजाएतस्यास्तावदेवम् । वर्तत इति शेषः।
लावण्यं नवजात्यकाञ्चननिभं नेत्रयोर्दीर्घत्वं
कर्णाभ्यां स्खलितं कपोलफलको द्विखण्डचन्द्रोपमौ । एषा पञ्चशरेण सज्जितधनुर्दण्डेन रक्ष्यते
येन शोषणमोहनप्रभृतयो विध्यन्ति मां मार्गणाः ॥ द्विधाभूतचन्द्रशकलद्वयनिभाविति द्विखण्डेत्यस्यार्थः । यथोद्यानवाटिकारक्षकस्त. त्पुष्पफलादिजिप्रक्षया तहष्टारं हन्ति तथेति वस्तुनोपमा व्यज्यते । शोषणेनान्ये गात्रजा मोहनेनान्या मानसाश्च विकारा उपलक्षिताः । मोहस्तु रसकलिकायाम् -'मोहस्तु मर्छनं भीतिर्दुःखवेगानुचिन्तनैः । तत्राज्ञानभ्रमापातघूर्णनादर्शनादयः ॥' इति ।।
For Private and Personal Use Only