________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम्
कर्पूरमञ्जरी।
अवि अ।
परुसा सक्कअबंधा पाउअबंधो वि होइ सुउमारो।।
पुरुसमहिलाण जेत्तिअमिहंतरं तेत्तिअमिमाणं ॥ ८ ॥ सूत्रधारः-ता अप्पा किं ण वण्णिदो तेण ।
पारिपार्थकः-मुणु । वण्णिदो जेब्ब तकालकइणं मज्झम्मि मिअंकलेहाकहाआरेण अवराइएण । जधा
बालकई कइराओ णिब्भअराअस्स तह उवज्झाओ । इअ जस्स परंपरए अप्पा माहप्पमारूढो ॥ ९ ॥
अर्थनिवेशास्त एव शब्दास्त एव परिणमन्तोऽपि ।
उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥ परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम् । तदुक्तं प्राकृतसंजीविन्याम्'प्राकृतस्य तु सर्वमेव संस्कृतं योनिः' इति । दण्डिना चोक्तम् -'तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ।' इति । उक्तिविशेष इति 'तददोषौ शब्दार्थों' इत्यादिना काव्यप्रकाशे नानाभेदभिन्नं काव्यमुपक्षिप्तम् । भाषाविशेषानादरश्चोक्तः । कण्ठाभरणे'संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः।' इत्यादिना 'सर्वाभिरपि कश्चन' इत्यन्तेन ।
अविएति। अपि च ।
परुपाः संस्कृतगुम्फा: प्राकृतगुम्फोऽपि भवति सुकुमारः ।
पुरुषमहिलानां यावदिहान्तरं तेषु तावत् ।। महिलाः कामिन्यः । सूत्रधारःतदात्मा किं न वणितस्तेन । पारिपार्श्वकः--
शृणु । वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन । यथा
बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः ।
इत्येतस्य परम्परया आत्मा माहात्म्यमारूढः ।। यदा तु 'इति यस्य जयैः परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयरुत्कषैः । आ. रूढमिति भावे क्तः । इयं च कारणमाला । सा यथा-'यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य
For Private and Personal Use Only