SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ।।' इति दण्डिना चोक्तलात, अत्र चाल्पीयस्या अपि ज्योत्स्नाया अतिवृप्तिजनकत्वेन लोकोत्तरत्वस्य. 'पदैकदेशरचनावणेष्वपि रसादयः' इति काव्यप्रकाशकृदुक्तरेकवचनेन व्यञ्जनादुद्वेगाभावो वेदितव्यः । विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं व्यङ्ग्यम् । रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ता: सन्तीति ध्वनितम् । तदिदं वस्तुना वस्तु व्यज्यते । काव्यकुशला इति तादृशानामेव सभ्यत्वमत्र सूचितम् । तल्लक्षणं भरते-'सभ्यास्तु विबुधैया ये दिदृक्षान्विता जनाः । मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः । अगर्वा रससारज्ञास्तौर्यत्रितयकोविदाः ।। असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः । अमन्दरसनिष्यन्दिहृदया भूषणोज्ज्वला: ॥ सुवेषा भोगिनो नानाभाषाचारविशारदाः । स्वस्वोचितस्थाननिष्ठास्तत्प्रशंसापरायणाः ॥' इति । चकोरोपमानेन विवेचनकर्तृत्वप्रार्थना व्यङ्गया। सोऽयमलंकारेण वस्तुध्वनिः । विदग्धप्रियेति षष्ठीतत्पुरुषं कृत्वा वाण्या विशेषणम् । यद्वा वैदयादीनाम् । अस्मिन्पक्षे कर्मधारयमाश्रित्य वैदादीनां कामिनीरूपत्वं व्यङ्ग्यम् । सोऽयं वस्तुनालंकारध्वनिः । वैदाद्या रीतयः शब्दालंकाराः । तल्लक्षणं कण्ठाभरणे-'तत्रासमासा निःशेषसमग्रगुणमुम्फिता। विपञ्चीस्वरसौभाग्या वैदी रीतिरिष्यते ॥ पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी । समस्तपञ्चषपदामोजःकान्तिविजिताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः॥' इति । रीतिसामान्यलक्षणं च तत्रैव- वैदभ्यादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गताविति धातोः सा व्युत्पत्त्या रीतिरिष्यते ।।' इति। गौडी लाटीनामेतत्संकरजत्वात्तिसृणामेवोपादानम् । चकोरा इवेत्युपमालंकारः। सा यथा---'साधर्म्यमुपमा भेदे' इति काव्यप्रकाशे । वामनेनाप्युक्तम्-'उपमानोपमेययोर्गुणलेशतः साम्यमुपमा' इति । दण्डिनाप्युक्तम् -- यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रप. श्चोऽयं निदश्यते।।' इति। भदं भोदु इत्यादौ छेकानुप्रासः। कइणो इत्यादी वृत्त्यनुप्रासः । स यथा तत्रैव-वर्णवृत्तिरनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥' इति । इयं च वैदर्भी रीति:। ओजःप्रसादश्लेषसमाधिमाधर्यसौकुमार्योदार्थव्यक्तिप्रभृतिबन्धगुणानामर्थगुणानां च विद्यमानत्वात् । एतेषां विवरपां न कृतम्, ग्रन्थगौरवभयात् । एवमन्येऽपि कैशिक्यादयः शब्दालंकारा ज्ञेयाः । 'ध्वनिमत्ता तु गाम्भीर्यम्' इत्युक्तत्वादाम्भीर्यादयो गुणाश्च । केचित्तु रीत्यादीनामपि गणत्वं मन्यन्ते । अत्र च 'रतिर्देवादिविषया' इत्युक्तत्वात्सरस्वत्यादि विषया रतिरुता । विदग्धप्रियेत्येतेन विदर्भदेशोत्पन्ननायिकाबोधकेन वैदा दिशब्देन च समासोक्त्या रीतेर्नायिकात्वारोपात्, काव्यकुशलपदेन च तेषां नायकत्वारोपात, शृङ्गारो ध्वन्यते । स्थाय्यादि स्वयमह्यम् । इदं च शार्दूलविक्रीडितम्-'सूर्या श्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति । 'वर्णविन्यासयोगः। पद्यादौ वाद्यवक्त्रे वचसि च सकले प्राकृतादौ समोऽयम्' इत्युक्तेर्गणादि. विचारः क्रियते-तत्र ‘मो भूमिस्त्रिगुरुः श्रियं दिशति' इत्युक्तत्वाद्गणशुद्धिरत्रास्ति । 'मुखभयमरणक्लेशदुःखान्यवर्गः' इत्युक्तेर्वर्णशुद्धिः । 'देवतावाचकाः शब्दा ये च भद्रा.. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy