SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। महाकविश्रीराजशेखरकृता कर्पूरमञ्जरी। वासुदेवकृतया टीकया समेता। प्रथमं जवनिकान्तरम् । भदं भोदु सरस्सईअ कइणो णन्दन्तु वासाइणो ___अण्णाणं वि परं पअदृदु वरा वाणी छइल्लप्पिआ। वच्छोमी तह माअही फुरदु णो सा किं च पंचालिआ रीदीयो विलिहन्तु कब्बकुसला जोहां चओरा विअ ॥ १॥ दशास्योद्यदास्यच्छिदं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम् । गणेशं च गण्डोल्लसद्भङ्गसङ्गं हरोच्चाङ्गसङ्गांश्च गङ्गातरङ्गान् ।। तातं प्रभाकरं नत्वा मातरं गोमतीमपि । कर्पूरमञ्जरीटीका वासुदेवेन तन्यते ।। कर्पूरमञ्जयांख्यसाटकारम्भे सूत्रधार आशीरूपां नान्दी पठतिभद्दमिति। भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः ___अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया । . . वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥ अत्र च व्यासादय इत्यादौ सरस्वत्या इत्येतत्प्रभृति षष्ठयन्तत्वोपक्रमभङ्गाभासेऽपि भवत्वित्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न प्रक्रमभङ्गः शङ्कयः। तेन रीति म शब्दगणः । यथोक्तं सरस्वतीकण्ठाभरणे-'उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते' इति । सरस्वत्याः सततं भद्रभाजनवादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या मङ्गलाशंसनं संभवत्येव । अत एवान्येषामपीत्यग्र आशंसनम् । 'भवेत्तद्भिनवचनं यद्भिनवचनोपमम्' इत्युक्तत्वाज्ज्योत्स्नामित्युपमाने भिन्नवचनतादोषो न शङ्कयः । 'यद्भिनलिङ्गमित्युक्तं तद्भिनवचनं भवेत् । उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ।।' इति वृद्धैः, 'न लिङ्गवचने भिन्ने न हीनाधिक१. साहित्यदर्पणादिषु सट्टकमिति नाम दृश्यते. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy