________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका। यादृशी च व्यक्यमर्यादा, यच्च रसपरिपोषणं, सम्यगुपन्यस्त, तत्स्वानुभवैकसंवेद्यमेव सहृद. याना, नवचसा प्रकाशयितुं शक्यम् । किं बहुना, काव्यस्यास्य लोकोत्तरसरसतासमाकृष्टैर्बहुभिः कविभिमेघदूतपद्यादेकैकं पादमुद्धृत्य एकैकस्मिन् पद्ये घटयित्वा क्रमेण, स्वकाव्यं मेघदूत कोटावन्तर्भावयदूभिः काऽपि कृतार्थता समपादि ।
दूतकाव्यकवीनांमध्ये कालिदास एवं सर्वादिमो मार्गदर्शी दूतकवीनाम् । कालिदाससरणि लेशेनैवानुहरन्ति सन्ति सन्ति भुयांसि दूतकाव्यानि सुप्रसिद्धानि । तत्र धोयीकवेः पवनदूत, वेदान्तदेशिकानां हंससन्देश, च रमणीय जागर्ति । प्रायेण सर्वाण्येव दूतकाव्यानि मन्दाक्रान्ता माश्रित्यैव संदृब्धानि दृश्यन्ते । नच लक्षगग्रन्थेषु केचिदपि क्वचिदप्यनुशिएमस्ति, यत् दूतकाव्यैर्मन्दाक्रान्तावृत्तवटितैरेव भाव्यमिति । तत्रेदमेव निदान प्रतिभाति यन्मन्दाक्रान्तायाः प्रतिपादं प्रथमतश्चतुर्यु पश्चात् पट्स ततः सप्तस्वक्षरेपु यतेविद्यमानतया विरहविक्लवस्य नायकस्य सन्देशावसरे किञ्चिद्विलम्ब्य विश्रम्य निःश्वासविच्छेदपूर्वक कथनं सकरमिति तदेव वृत्तमनुभवरसिकेन महाकविना स्वीकृतम् ।
अत्र च काव्ये शापप्रवासविप्रलम्भशृङ्गारो रसः । अभूतपूर्व कौशलं कालिदासस्यत. इसवर्णने । 'न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते' इति चाभियुक्तोक्तिः । शापप्रवासवि. प्रलम्भवर्णने च कालिदासस्य भूयानादरो दृश्यते । तथाहि-शाकुन्तले विक्रमोर्वशीयेचा ऽयमेव रस सम्यगुपनिबद्धो महाकविना ।
किंचाऽस्य महाकवेरनितरसाधारणं भूगोलपरिज्ञानं मेघसन्देशव्याजेन स्फुटमनुभूयते ।
अस्य काव्यस्य बह्वयष्टीकाः सन्ति । तास मलिनाथीया बहुवार मुद्रिताऽपि प्राणभूतेव सर्वासामिति भूयोऽप्यन्त्र सङ्ग्रहीता।
चारित्रवर्द्धनकृता टीका तु नाऽद्यावधि क्वाऽपि मुद्रितेति तत्सङ्ग्रहस्त्वावश्यक एव । अयं चारिम्रवर्द्धनो जैनधर्मीय इति तदीयग्रन्थादिमलेखादनुमीयते । नाऽधिकं किमपि सम्प्रति तद्विषये वक्तुं शक्यम् । भावप्रबोधिनी च भावार्थमात्रैकबोधिका परीक्ष्यच्छात्रोपकारिका मया स्वयंविरचितेति टीकात्रयसंवलितमिदं संस्करणं रसिकानां मुदे छात्राणामुपकाराय च भूयादिति साञ्जलिबन्धं श्रीविश्वनाथमभ्यर्थते ।
सरस्वती भवनम्
কাম্য
विदुषां वशंवदः नारायणशास्त्री विस्त
For Private And Personal Use Only