________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका
विश्वविख्यातस्य सरसमधुरकविताकामिनीस्वयंवृतस्य महाकवेः कालिदासस्य कृतिषु अशिताक्षर विपुलगंभीरगढाथ पदे पदे ध्वनिमहिम्ना हृदयग्राहि मेवहूताभिधं काव्यरत्न सर्वातिशायितया जागर्ति । खण्डकाव्यमिदमिति बहवः प्राहुः । दण्डिप्रभृतयः कतिपये महाकाव्यत्वमस्योरीकुर्वन्ति । - स्वाधिकारानुष्ठाने कृतप्रमादः संवत्सरपर्यन्तं भोग्येन स्वामिनः कुबेरस्य शापेन विगलितमहिमा कश्चिद् धनदानुचरो यक्षः चित्राकटाराश्रमेषु वसतिं कुर्वाणः, कदाचित आपा
स्य प्रथमदिवसे नभसि मेचं पश्यन् , अन्तर्वाष्पश्चिरमनुध्याय कथञ्चिदात्मानं प्रकृतिस्थं सम्पाद्य स्वदयिताजीवितालम्बनार्थी सन् , चित्रकूटादेरलकापर्यन्तमध्वानं, ततः सन्देशा. श्चि कथयित्वा प्रेषयतिस्म प्रियासमीपं तं जीमूतमिति सरसात्मनामाह्लादनं कोमलं कथावस्तु ।
इदं च मेघदूतकाव्यं महाकविना कालिदासेन, रामायणीयं रामस्य सीतां प्रति हनूमत्सन्देशमादर्शत्वेन पुरोनिधायैव निर्मितम् । नहि प्राकृत जनवां सीव वश्यवाचां महाक. वीनां भणितयो यतिकमपि निरभिसन्धि वर्णयन्ति । अन्न मेघदूते खलु महाकविः कालिहासो व्यङ्गयमर्यादया रामायणकथामेवांशतो ध्वनयति । तथा हि-ग्रन्थारम्भ एवं दयिता विरही यक्षः 'कश्चित्' इत्यनिर्वचनीयत्वेन दर्शितः । स च ऋष्यमूके सीताविरहमग्नं हनूमते सन्देशं कथयितुमुद्यतं रामं स्मारयति । अग्रे च तत्तत्स्थलेषु 'जनकतनयास्नान. पुण्योदकेषु' 'रामगिर्याश्रमेषु' "रघुपतिपदैरङ्कितं' 'दशमुखभुजोच्छ्वासितप्रस्थसन्धेः' इत्यादि प्रयुञ्जानो महाकविः कं वा गूढमभिसन्धि ध्वनयति ? किञ्च 'इत्याख्याते पवनतनयं मैथिलावोन्मुखो सा' इत्युक्त्या स्पष्टमेव हनूमत्सन्देशमुपजीव्य प्रवृत्तमिदं मेघ. सन्देशमिति न तिरोहितं काव्यार्थभावनाभावितात्मनां सहृदयानाम् । अन्यच्च रामायणे हनुमत इव मेघदूते मेवस्य गजपर्वतादिसादृश्यकथनं कामरूपत्वोक्तिश्च, रामायणे सुग्रोवेण वानरगणगन्तव्यमार्गकथनं, सुवेलाचलमूर्धस्थाया लङ्काया इव कैलासाचलशिरोभूषणाया 'अलकाया वर्णनं, हनूमतो लायामिव मेवल्यालकायां सायंकाले प्रवेशकथनं, हनुमतः सूक्ष्मशरीरेणेव मेघेनाऽपि तथाविधेनैव सन्देशकथनं, अशोकवनिकास्थितया सीतथा समानावस्थाया यक्षपत्न्याः प्रायस्तैरव विशेषणैर्वर्णनम् , रामायगीयमभिज्ञानहानमिवानाऽप्यभिज्ञानदानकथनं, बाद रामायणच्छायामेवाऽनुहरति ।
अस्मिन् लघुनि काव्ये च महाकविना यादृशं शब्दार्थमाधुर्य, लोकोत्तरं वर्णननैपुण्यं,
For Private And Personal Use Only