________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
०
सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते
उत्तरमेघः विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ १ ॥ ( सञ्जी०) विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिता. स्त्रियो येषु । सह विनर्वर्तन्त इति सचित्राः "आलेख्याश्चर्ययोश्चित्रम्" इत्यमरः ॥ "तेन सहेति तुल्ययोगे" इति बहुव्रीहिः । “वोपसर्जनस्य” इति सहशब्दस्य समासः ॥ संगीताय तौर्यनिकाय प्रहतमुरजास्ताडितमृदङ्गाः ॥ "मुरजा तु मृदङ्ग स्याकामुरजयोरपि” इति शब्दार्णवे ॥ मणिविकारा
भुवो येषु । अभ्रं लिहन्तीत्य_लिहान्यभ्रंकषाणि ॥ "वहाभ्रेलिहः" इति खप्रत्ययः । “अरुद्विष-"इत्यादिना मुमागमः । अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः। प्रासादा देवगृहाणि ॥ “प्रासादो देवभूभुजाम्" इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापवन्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गत तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तविशेषैर्ललितवनितत्वादिधर्मेस्तुलयितुं समीकर्तुमलं पप्तिाः ॥ “अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः। अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युदनितादीनां यथासंख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति बिम्बप्रतिविम्बभावेनेयं पूर्णोपमा । वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नयोरुपमानोपमेयधर्मयोः पृथगुपादानाद्विम्बप्रतिबिम्बभावः ॥ १॥
(चारि० ) साम्प्रतमलकादर्शनकौतुकमुत्पादयन्नलकाज्ञानार्थमेनामेव वर्णयति-विद्युअन्तमिति । यत्रालकायां प्रासादा हाणितैस्तै विशेषैस्त्वां भवन्तं तुलयितुं सदृशीकर्तुमलं पर्याप्ताः । विशेषणद्वारेण तानेव विशेषानाह । कीदृशं त्वां विद्युद्विद्यते यस्य तम् । ललिता मोहरा वनिता येषु ते इति साम्यम् । इन्द्रचापेन सह वर्तत इति सेन्द्रचापम् । चित्रेणालेख्येन सह वर्तन्त इति साम्यम् । स्निग्धो मधुरो गम्भीरो धीरो घोषो गर्जितं यस्य स तम् । तथा सङ्गीतस्य नृत्यगीतवाद्यादित्रयस्यार्था हेतवः प्रहताश्च मुरजा येषु ते इति साम्यम् । अन्तर्गतं तोयं जलं वा यस्य स तम् । मणिमय्यो भुवो येषां त इति साम्यम् । तुङ्गमुन्नतम् । अभ्रमाकाशं लिहन्ति स्पृशन्ति अग्राणि येषां त इति साम्यम् । अभ्रं सुरानो डमरुरित्यथोम्बरमित्यभिधानचिन्तामणिः । अभ्रंलिह इति वहाभ्रेलिह इति खश् । तुलया सादृश्येन गृहातीत्यर्थे तुलाप्रातिपदिकाण्णिजन्तातुलयितुमिति रूपम् । तुल उन्मानेऽस्माञ्चुरादिकात्तोलयितुमिति स्यात्॥आलेख्याश्चर्ययोश्चित्रम् । अलं भूषणपर्याप्तिशक्ति वारणवाचकमित्यमरः ॥१॥
(भाव० ) हे मेघ ! अलकां प्राप्तस्य ते तत्रत्याः प्रासादा ललितवनितात्वादिभिर्धमें समानधर्माणो भवन्तस्त्वां तुलयिष्यन्ति ॥१॥ संप्रति सर्वदा सर्वर्तुसंपत्तिमाहहस्ते लीलाकमलमलके बालकुन्दानुविद्धं
. नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः । चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
सीमन्ते च स्वदुपगमजं यत्र नीपं वधूनाम् ॥२॥
For Private And Personal Use Only