________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः। तस्योत्सङ्गे प्रणयिन इव स्रस्त गङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलका ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ।। ६३ ।। ( सञ्जी० ) तस्येति ॥ प्रणयिनः प्रियतमस्येव तस्य कैलासस्योत्सङ्गे ऊर्ध्वभागे कटौ च ॥ "उत्सङ्गो मुक्तसंयोगे सक्थिन्यूज़तलेऽपि च” इति मालतीमालायाम् ॥ "गङ्गा दुकूल शुभ्रवस्त्रमिव ॥ "दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके" इति शब्दार्णवे ॥ अन्यत्र तु गङ्गव दुकूलम् । तत्स्रस्तं यस्यास्तां तथोक्तामलका कुबेरनगरीं दृष्ट्वा । कामिनीमिवेति शेषः। हे कामचारिन्, त्वं पुनस्त्वं तु न जास्यसा इति न किं तु ज्ञास्यस एवेत्यर्थः ॥ कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शनसंभवादज्ञानमसंभावितमेवेति निश्चयार्थ ननुयप्रयोगः । तदुक्तम्--"स्मृतिनिश्चयसिद्ध्यर्थेषु नद्धयप्रयोगः" इति ॥ उरुन्त्रतानि विमानानि सप्तभूमिकभवनानि यस्यां सा॥ "विमानोऽस्त्री देवयाने सप्तभूमौ च समनि" इति यादवः । मेघसंवाहनस्थानसूचनार्थमिदं विशेषणम् ॥ अन्यन्न विमाना निष्कोपा यालका । वो युष्माकं काले । मेघकाल इत्यर्थः ॥ कालस्य सर्वमेघसाधारण्याद्व इति बहुवचनम् ॥ सलिलमुद्रितीति सलिलोद्वारम् । स्रवत्सलिलधारमित्यर्थः ॥ अभ्रवृन्दं मेधकदम्बकं कामिनी स्त्री मुक्ताजालौक्तिकसरैथितं प्रत्युप्तम् ॥ "पुंश्चल्यां मौक्तिके मुक्ता" इति यादवः ॥ अलकमिव चूर्णकुन्तलानीव । जातावेकवचनम् ॥ "अलकाश्चूर्णकुन्तला:" इत्यमरः ॥ वहति बिभर्ति ॥ अत्र कैलासस्यानुकूलनायकत्वमलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । “एकायत्तोऽनुकूलः स्यात्" इति च "प्रियोपलालिता नित्यं स्वाधीनपतिका मता" इति च लक्षयन्ति । उदाहरन्ति च--लालयनलकप्रान्तारचयपत्रमारीम् । एकां विनोदयन् कान्तां छायावदनुवर्तते ॥” इति ॥ ६३ ॥
इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजाविनीसमाख्यया व्याख्यया सनाथे महाकविश्रीकालिदासविरचिते मेघदूते
काव्ये पूर्वमेघः समाप्तः। (चारि० ) गुणोत्कीर्तनेनालका बोधयितुमाह । तस्येति-भो कामचारिन् जलद प्रणयिनो भर्तुरिव तस्य कैलासस्योत्सङ्ग उपरि शृङ्गे त्वं पुनरलकां दृष्ट्वा न ज्ञास्यस इति नापि तुज्ञास्यसे । द्वौ नौ प्रकृतमथं गमयतः । कीदृशीं खस्तं भ्रष्टं गङ्गैव दुकूलं विस्रवद्वस्वं यस्यास्ताम् । दर्शनमेव विशदयति । यालका वो युष्माकं मेघानां काले समये वर्ष वित्यर्थः। उच्चै रुनतैर्विमानैः सप्तभूमिकप्रासादैः सलिलमुहिरति सलिलोद्गारः कर्मण्यण् । तं अभ्राणां वृन्दं मेघानां समूह वहति । मुक्ताजालेन मौक्तिकगणेन ग्रथितं नद्धमलकं मालावलम्बि केशविन्यासे विशेष कामिनीव । विमानो ऽस्त्री देवयाने सप्तभौमे च समनि । जालं गवाक्षे आनाये क्षारके कदने गण इति यादवः । दुकूल शुक्लवस्त्रे, पीति केशवः ॥६३ ॥
इदानीं यावत्पूर्वमेघसन्देशः सम्पूर्णः ॥ इत्थमलकां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह(भाव० ) हे मेघ ! तस्य कैलास्योत्सने स्थितां प्रियक्रोडे स्थितां कामिनीमिवालकापुरी निश्चयेन ज्ञास्यसि ॥ ६३ ॥
इतिपूर्वमेघः ।
७ मेघ०
For Private And Personal Use Only