________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सजीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते— (चारि०) शष्येति-भो मेध ! यत्रोज्जयिन्यां वाहाः अश्वाः दिनकरहयानां सूर्याश्वानां स्पर्धा येषामस्ति तादृशाः सन्ति । कीदृशाः शष्पश्यामाः बालतृणवन्नीलाः । यत्र करिणस्त्व. मिव सन्ति । किंविशिष्टाः । प्रभेदात् मदक्षरणात् वृष्टिमन्तः वृष्टियुक्ताः । पुनः कीदृशः। शैलवत् पर्वतवदुदयाः उच्चाः । त्वमप्येवं विधः । प्रभेदात् जलत्यागात् वृष्टिमान् । शैलोदरश्च । यत्र च योधाग्रण्यः योधेषु भटेषु अग्रण्यः अग्रगामिनः संयुगे समामे दशमुख रावण प्रति तस्थिवांसः । रावणेन सह युद्धमकार्षरित्यर्थः। कीदृशाः चन्द्रहासस्य शस्त्रविशेषस्य व्रणा क्षतचिह्नः प्रत्यादिष्टा निराकृता आभरणानामलङ्काराणां रुचियेषां ते तादृशाः। प्रत्यादिष्टे निरा. कृतइत्यमरः ॥ ३१॥
(भाव) हे मेघ! यत्र विशालायां प्रत्युषे पद्मसौरभयुक्तः शिप्रापवनः प्रियतम इव चाटुवाक्यः स्त्रीणां सुरतखेद हरति, तां विशाला नगरी गच्छ ॥ ३१ ॥ जालोद्गीर्णरुपचितवपुः केशसंस्कारधूपै
बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः । हर्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा
__ लक्ष्मी पश्यंल्ललितवनितापादरागांकितेषु ॥ ३२ ॥ मतुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । धृतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या
स्तोय क्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥ (सञ्जी०) जालोद्रीणैरिति। जालोद्गीणैर्गवाक्षमार्गनिर्गतः। “जालं गवाक्ष आनाये जालके कपटे गणे” इति यादवः । केशसंस्कारधूपैः । वनिताकेशवासनार्थैर्गन्धद्रव्यधूपैरित्यर्थः । अत्र संस्कारधूपयोस्तादयेऽपि यूपदावादिवत्प्रकृतिविकारत्वाभावादश्वघासादिवत्षष्ठीसमासो न चतुर्थीसमासः । उपचितवपुः परिपुष्टशरीरः। बन्धौ बन्धुरिति वा प्रीत्या भवनशिखिभिर्गृहम. यूरैर्दत्तो नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः । “उपायनमुपग्राह्यमुपहारस्तथीपदा" इत्यमरः । कुसुमैः सुरभिषु सुगन्धिषु । ललितवनिताः सुन्दरस्त्रियः । "ललितं त्रिपु सुन्दरम्" इति शब्दार्णवे । तासां पादरागेण लाक्षारसेनाडितेषु चिह्नितेषु हम्येषु धनिकभवनेष्वस्या उज्जयिन्या लक्ष्मी पश्यन्नध्वगमनेन खेदं क्लेश नयेथा अपनय ॥ ३२ ॥
(सी) भर्तुरिति । भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छविर्यस्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः । “गणस्तु गणनायां स्याद्गणेशे प्रमथे चये” इति शब्दार्णवे । सादर यथा तथा वीक्ष्यमाणः सन् । प्रियवस्तुसादृश्यादतिप्रियत्वं भवेदिति भावः । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । “तद्धितार्थ-" इत्यादिना समासः। तस्य गुरो. खैलोक्यनाथस्य चण्डीश्वरस्थ कात्यायनीवल्लभस्य पुण्यं पावनं धाम महाकालाख्यं स्थानं याया गच्छ । विध्यर्थे लिङ् । श्रेयस्करत्वात्सर्वथा यातव्यमिति भावः । उक्तं च स्कान्दे"आकाशे तारकं लिङ्ग पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवाप्नुयात् ।" इति । न केवलं मुक्तिस्थानमिदं किंतु विलासस्थानमपीत्याह-धूतेति । कुवलयरजोगन्धि. मिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि । करणे ल्युट् । "स्मानीयेऽभिषवे स्नानम्" इति यादवः । तेन तिक्तेः सुरभिभिः ।
For Private And Personal Use Only