________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः । व्याधिनिर्धनत्वासौख्यनरकादिफलप्राप्तिः सामान्यतो दुःखशब्दवाच्या तत्परिहारश्च । अन्ये
तु परमानन्दादि रूपं श्रेयः ।
Acharya Shri Kailassagarsuri Gyanmandir
अयं धर्मो ब्राह्मणवाक्येभ्योऽवगम्यते लिङादियुक्तेभ्यः । क्वचिच्च मन्त्रेभ्योऽपि 'वसन्ताय कपिञ्जलानालभत' इत्येवमादिभ्यः । तत्र कामपयुक्तानि वाक्यानि फलार्थमनुष्ठानमवगमयन्ति । ‘सौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामो वैश्वदेवीं सांग्रहिणीं निर्वपेग्रामकाम' इति । तानि फलमनिच्छता न क्रियन्ते ।
76
प्रतिषेधानामपि । ' ब्राह्मणो न हन्तव्यः ' हि फलार्थ प्रतिषिद्धवर्जनमपि तु प्रत्यवायपरिहारार्थम् ।
अन्यानि यावज्जीवादिपदैर्नित्यतया समर्पितानि तानि न फलहेतोरनुष्ठीयन्ते फलस्यास्याश्रुतत्वात् । न च " विश्वजिता यजेते " त्यादिवदश्रुतफलत्वेऽपि फलकल्पना । यतो यावज्जीवादिपदैर्विनैवं फलेन कर्तव्यतयाऽवगम्यन्ते । तत्राकरणे शास्त्रार्थातिक्रमदोषः । तत्र तत्परिहारार्थं तानि क्रियन्ते ।
१०
सुरा न पेया' इत्येषैव वार्ता । न
५७
अखिलः कृत्स्नः । न किंचित्पदं वर्णो मात्रा वा यन्न धर्माय । अत्र चोदयन्ति । ननु च ' विद्ध्यर्थवादमन्त्रनामधेयात्मको वेदः । धर्मश्च कर्तव्यतास्वभाव ' इत्युक्तम् । तत्र युक्तं यद्विधिवाक्यानि धर्मे प्रमाणं स्युः । तेभ्यो हि यागादिविषया कर्तव्यता प्रतीयते । १५ अग्निहोत्रं जुहोति; दध्ना जुहोति ; यदनये च प्रजापतये च सायं जुहोति स्वर्गकामो जुहोतीति” । अत्र ह्यग्निहोत्राख्यं कर्म कर्तव्यतया प्रतीयते । ' दध्नेति ' तत्रैव द्रव्यम् । ' यदग्नये चेति' देवता । ' स्वर्गकाम ' इत्यधिकारः ।
66
For Private And Personal Use Only
19
यत्तु “अग्निर्वै सर्वा देवता अग्निरेव दैव्यो होता स देवानाह्वयति च जुहोति च इत्यादयः । तथा " प्रजापतिर्वपामात्मन उदख्खिदत् ” इत्यादयः । न तैः किंचित्कर्तव्य- २० मुपदिश्यते केवलं पुरावृत्तमन्यद्वाऽसांप्रतिकं भूतमनुवदन्ति । प्रजापतिना पुरा आत्मनो वपोत्खाता उत्खिदतु किमस्माकमेतेन ? तथाऽग्नेरपि सर्वदेवतात्मत्वं नाग्नेयकर्मण्युपयुज्यते । अग्निशब्देनोद्देशार्थनिवृत्तेः अन्यदेवत्वेऽन्यत्वादरुद्देश एव नास्ति । आवाहनस्यापि वचनान्तरेण “ अग्निमग्न आवहे " त्यादिना विहितत्वात् । स देवानाह्वयति च जुहोति चेत्यादिरनर्थकः । मन्त्रा अपि " न मृत्युरासीदमृतं न तर्हि सुदेवो अद्य पतेदना- २९ वृत् ” इत्यादयो भाववृत्तपरिदेवनादिरूपार्थाभिधायिनः कं धर्मे प्रमिमते ? तस्मिन्काले न मृत्युर्जातो नाप्यमृतं जीवितं प्राक् सृष्टेर्भूतानामनुत्पन्नत्वान्न कस्यचिज्जीवितमसीन्नापि मृत्युः प्रलये सर्वेषां मृतत्वाद्भवतु वा मृत्युर्मा वा न किंचिदेतेन कर्तव्यमुपदिष्टं भवति । एवं सुदेवोऽसौ महापुण्यो देवतुल्यो मनुष्यो योऽद्य प्रपतेच्छुत्र आत्मानं क्षिपेदनावृदावृत्तिः
"" 44