________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः सात्यमुनिराणायनीयादिभेदेन, एकशतमध्वणां काठकवाजसनेयकादिभेदेन, एकविंशतिबाढच्या आश्वलायनैतरेयादिभेदेन, नवधा आथर्वणं मौदकपैप्पलादकादिभेदेन ।
ननु नैव केचिदाथर्वणं वेदं मन्यन्ते यत; “ त्रयी विद्या ऋचः सामानि यजूंपीति " । " वेदैरशून्यस्त्रिभिरेति सूर्यः" । तथा "त्रैवेदिकं व्रतं चरेदि' त्यादौ न क्वचिदाथर्वणानामप्यस्ति "। प्रतिषेधश्च श्रूयते “ तस्मादाथर्वणेन न शंसेदिति” । अतस्त्रयीबाह्यानाथर्वणिकान्पाषण्डिनः प्रतिजानते तयुक्तम् । अविगानेन शिष्टानां वेदव्यवहारात् श्रुतीरथर्वाङ्गिरसीरित्यत्रापि व्यवहारः। श्रुतिर्वेद इत्येकोऽर्थः। न च वेदशब्दवाच्यताऽग्निहोत्रादिवाक्यानामपि धर्मप्रामाण्ये कारणम् । इतिहासायुर्वेदयोरपि वेदव्यवहारदर्शनात् ‘इतिहासपुराणं पञ्चमं वेदानां वेदमिति' । किं तर्हि अपौरुषेयत्वे सत्यनुष्ठेयार्थावबोधकत्वाद्विपर्ययाभावाच्च । तच्चाथर्ववेदेऽपि सर्वमस्ति; ज्योतिष्टोमादिकर्मणां यजुर्वेदादिष्विव तत्राप्युपदेशात् । अभिचारमूलककर्मणां बाहुल्येन तत्रोपदेशादवेदत्वमिति विभ्रमः केषांचित् अभिचारा हि परप्राणवियोगफलत्वात्प्रतिषिद्धाः; आथवणिकैश्च त एव प्राधान्येनानुष्ठीयन्ते राजपुरोहितैरतस्ते निन्द्यन्ते।
__यत्तु " वेदैरशून्य " इत्यादावथर्ववेदस्यानिर्देश इति । अर्थवादा एते। किं तत्र १५ निर्देशेनानिर्देशेन वा । मन्त्रभेदाभिप्रायं वैतद्वचनं त्रयो वेदास्त्रयी विद्येत्यादि ।
न हि चतुर्थ मन्त्रजातमस्ति ऋग्यजुःसामव्यतिरेकेण । औषनिविन्निगदेन्द्रगाथादीनामत्रैवान्तावात् । अर्थववेदे चर्चएव मन्त्रत्वेन समाम्नाताः । अत ऋग्वेद एवायं मन्त्राभिप्रायेण । यस्तु प्रतिषेधः स विपरीतसाधनः प्राप्तौ सत्यांप्रतिषेधोपपत्तेः । अयं वाऽस्यार्थः ।
अथर्ववेदाधीतैमैत्रैस्त्रैवेदिकं कर्म न मिश्रयेत् । वाचः स्तोमे सर्वा ऋचः सर्वाणि यजूंषि २० सर्वाणि सामानि विनियुक्तानि तत्राथर्ववेदाधीतानां प्रतिषेधः।
स वेदो विशिष्टः शब्दराशिरपौरुषेयो मन्त्रब्राह्मणाख्योऽनेकशाखाभेदभिन्नः। धर्मस्य मूलं प्रामाण्यपरिज्ञाने हेतुः । कारणं मूलम् । तच्च वेदस्मृत्योर्धर्मप्रतिज्ञापकतयैव न 'निर्वतकतया न च स्थितिहेतुतया वृक्षस्येव । धर्मशब्दश्च प्राग्व्याख्यातः । यत्पुरुषस्य कर्तव्यं
प्रत्यक्षाद्यवंगम्यं विलक्षणेन स्वभावेन श्रेयःसाधनं कृषिसेवादि भवति । तस्य च तत्साधनत्व२५ स्वभावोऽन्वयव्यतिरेकाभ्यामवगम्यते । यादृशेन व्यापारेण कृष्यादेज़ह्यादिसिद्धिः साऽपि
प्रत्यक्षाद्यवगम्यैव । यागादेस्तु साधनत्वम् । येन च रूपेणापूर्वोत्पत्तिव्यवधानादिना तन्न प्रत्यक्षाद्यवगम्यम् । श्रेयश्चाभिलषितवर्गग्रामादिफलप्राप्तिः सामान्यतः सुखशब्दवाच्या ।
१ एतद्धि अस्मदुपलब्धलिखितपुस्तकेषु न दृश्यते । २ अ-ख-ड-क-फ-क्ष-अभिचारमूलकर्मादिकर्माणाम् । ३ अ-क-ख-ड-क्ष-अवेदत्वमतिविभ्रमः । ४ अ-ख-ड-क-फ-क्ष- निवर्तकतया । ५ अ-ख-ड-क-फ-क्ष-अवगम्य ।
For Private And Personal Use Only