SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । प्रमाणमिदमप्रमाणमिति युक्तित एतदवसेयम् । नोपदेशतः तथाचायमनर्थकः श्लोकः । एतत्समानरूपा उत्तरेऽपि अत्रोच्यते । इह ये धर्मसूत्रकारा अव्युत्पन्नपुरुषव्युत्पादनार्थ पदार्थसंपादनपरतया ग्रन्थसंदर्भानारभन्ते तत्र यथैवाष्टकादीनां वेदात्स्वयंकर्तव्यतामवगम्य परावबोधनार्थमुपनिबन्धः एवं प्रमाणान्तरसिद्धस्य वेदप्रामाण्यादेः । सन्ति केचित्प्रतिपत्तारो ये न्यायतस्तत्त्वविवेचनासमर्था ऊहापोहादिरूपबुद्ध्यभावात् । तान्प्रति न्यायसिद्धोऽप्यर्थः सुहृदुपदेशवदुपदिश्यते । तत्र यन्न्यायतः सिद्धं वेदस्य धर्ममूलत्वं तदेवानेनानूद्यते । वेदो धर्ममूलं धर्मस्य मूलत्वेन वेदो विचार्य युक्त्या सिद्धो नात्राप्रामाण्यशंका कर्तव्या । भवन्ति च लोके प्रमाणान्तरसिद्धानामर्थानामुपदेष्टारः । न त्वयाऽजीर्णे भोक्तव्यमजीर्णप्रभवा हि रोगाः । न चैतद्वक्तव्यम्, ये न्यायतो वेदस्य धर्ममूलत्वं न शक्नुवन्ति प्रतिपत्तुं ते वचनादपि न १० प्रत्येष्यन्ति । यतो दृश्यते । य आप्तत्वेन प्रसिद्धास्तदीयं वचनमविचार्यैव केचन प्रमाणयन्ति । तदेवं सर्वमिदं प्रकरणं न्यायमूलं न वेदमूलम् । अन्यत्रापि व्यवहारस्मृत्यादौ यत्र न्यायमूलता तत्र यथावसरं दर्शयिष्यामः । अष्टकादीनां यथा वेदमूलता तथाऽत्रैव निर्दिश्यते । वेदशब्देन र्ग्यजुः सामानि ब्राह्मणसहितान्युच्यन्ते । तानि चाध्येतॄणां वाक्यान्तरेभ्यः प्रसिद्धभेदानि उपदेशपरंपरा संस्कृता अध्येतारः श्रुत्वैव वेदोऽयमिति प्रति- १९ पद्यन्ते यथा ब्राह्मणोऽयमिति। तत्र वाक्यसमूहेऽपि 'अग्निमीळे' 'अग्निर्वै देवानामवम' इत्यादौ ‘संसमिद्युवसे’‘अथ महाव्रतमि’त्यन्ते, वेदशब्दः प्रयुज्यते; तदवयवभूतेषु केवलेषु वाक्येष्वपि । ५५ ५ न च ग्रामादिशब्दवद्गौणमुख्यता विद्यते । तत्र समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्त इत्येष न्यायः । ग्रामशब्दो हि प्रसिद्ध भूयिष्ठप्रयोगः समुदाय एव, ‘ग्रामो दग्ध' इत्यादिपदसंबन्धात्तदवयवे वर्तते । कतिपयशालादाहेऽपि लौकिका ' ग्रामो २० दुग्ध' इति प्रयुञ्जते । अथवा तत्रापि समुदायवचन एव । दाहस्त्वेकदेशवर्ती समुदायसंबन्धितया व्यपदिश्यते । अवयवद्वारक एव समुदायस्य क्रियासंबन्धः । एष एव समुदायस्य क्रियासंबन्धो योऽवयवानाम् । न ह्यवयवान्परिहाप्य समुदायो द्रष्टुं स्प्रष्टुं वा शक्यते । For Private And Personal Use Only व्युत्पाद्यते च वेदशब्दः; विदन्त्यनन्यप्रमाणवेद्यं धर्मलक्षणमर्थमस्मादिति वेदः । तच्च वेदनमेकैकस्माद्वाक्याद्भवति । न यावानृग्वेदादिशब्दवाच्योऽध्यायानुवार्कसमूहः । एवं २१ चोदाहरणे जिह्वाच्छेद इत्येकवाक्यविषयोऽप्ययं दण्डः । कृत्स्नोऽधिगन्तव्य इति कृत्स्नग्रहणं सकलवेदवाक्याध्ययनप्राप्त्यर्थम् । अन्यथा कतिचिद्वाक्यान्यधीत्य कृती स्यात् । पुनैश्व वेदः कृत्स्न इति। अत्रैतन्निरूपयिष्यामः । संच वेदो बहुधा भिन्नः सहस्रवम सामवेदः १ अ-क-ख-ड-क्ष- अनुवाक्समूहः । २फ-न पुनः ' कृत्स्नं ' वेदमिति । ३ ख-ड-क्ष-न च वेदो । ४ ख-ड-क्ष-अ-सहस्रधर्म्या ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy