SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [दशमः मुक्तं सदा प्रत्यात्मनि संपश्येदिति तत्र कीदृशमात्मनो दर्शनमात्मनीति वक्तव्यम् अन्ये तु मन्यन्ते । शरीरात्मन एवैतत्संनिवेशनं युक्तं । तस्य हि श्रोतृसंनिवेशन तद्वत्ता युक्ता । तत्रोच्यते । आत्मशब्दस्तावत्परमात्मविषयतया दर्शितवाक्यान्तरसमन्वयप्रमाणः । यत्र स्वरूपसिद्धिर्वक्तव्येति तत्र किमन्यच्छक्यं न वक्तुमन्यदतः श्रोतृत्वज्ञानविधेः । ५ तानि च वाक्यानि प्रतिशाखं सर्वोपनिषद्भयोऽवगन्तव्यानि । प्रमाणान्तराणामप्येकत्व प्रतिपादनपरत्वादेव ग्राहिणः प्रत्यक्षस्य मित्रैः कृत एव क्लेशः । उक्तं च वाक्यपदीपे " न तदस्ति च तन्नाम्नि " इत्यादि । विध्यवगम्यता च शरीरावरकादवसातव्या । यदप्युक्तमसत्कथं दर्शयन्निति स चासच्चेत्ययमर्थः स्यात् । सदिति विकारस्य ग्राम्यस्य निर्देशः । असदिति प्रत्यक्षतैव सूक्ष्मतयाक्षरावधारत्वात् । यदप्युक्तं नास्ति परमात्मनः १० श्रोसंबन्ध इति । किमत्र संबन्धि सर्वस्य जगत् स्थित्युत्पत्तिविनाशानां तत्कारणतयो उपपादित्वात् । यश्चायं संनिवेशविधिस्तस्यायमर्थः । यावद्यत्किचिदिवदवभासते तत्सर्वमद्वैतिकत्वे प्रविलापयेत् । सर्वमात्मस्थमित्येतत्परमात्मनो विरतिसामान्य हेतुर्विद्यत इति । समाहितः समाधिनाम चित्तवृत्तिनिरोधोपायो योगशास्त्रादागमयितव्य इत्यर्थः । नाधर्मे कुरुते मतिं बुद्धिश्चेतसो निश्चलताभावः । तावदभ्यसेद्यावद्वादिभिश्चेतो नापह्रियेत १५ अतश्च यावत्कश्चिद्भेदकत्वे प्रतिविलापयेत ॥ ११८॥ आस्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् ॥ आत्मा हि जनयत्येषां कर्मयोग शरीरिणाम् ॥ ११९ ॥ सर्वत्र यागादिक्रियाः स्वर्गादयो देवता आत्मत्वेन द्रष्टव्याः । योऽयमग्निर्देवता अग्नेरियमन्यात्मैवासौ नान्योऽग्निर्देवताऽस्तीति । तदप्युक्तं । एक आत्मा बहुधा श्रूयत २० इति । यत्र युक्त एक एवाहमात्मा देवतेति । तथा " इंद्रं मित्रं वरुणमग्निमाहुः एक सद्विप्रा बहुधा वदन्ति " बहुरूपपरमात्मनोऽन्यां देवतां पश्यन्ति । सतां परादादित्यनेन कर्मांगदेवतानामात्मदृष्टिविधीयते । किं तर्हि न तस्य देवतादिकृत्यमस्ति । आत्मतयैव सर्वसिद्धिः । कथं नार्थात्मनि जनयत्येषामिति । कर्मयोगे कर्मफलसंबंधः । स आत्मा तेषां निष्पादयति । नान्या देवता न तद्गुणकमिति ॥ ११९ ॥ २५ खं सन्निवेशयेत्स्वेषु चेष्टनस्पर्शनेऽनिलम् ॥ पक्तिदृष्टयोः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ १२०॥ यान्येतानि नवच्छिद्राणि तेषु बाह्यमाकाशं नियच्छेत् । बाह्यमाकाशं तदेव तन्न बाह्यं किंचिदस्तीति । अनियतो वायुः तं सन्निवेशयेत् । चेष्टते स्पंदते तत्र काचि १ण-असतो । २ ण विधिः । ३ ण-सत्वासत्वे हियदर्थः स्यात् । ४ ण-श्रोत्रादिति संबंधादिति । ५ण-परमात्मनि।६ ण-आतश्च धीरप्रकृतेः कुतमतिरषभी। ७ ण-तदयुक्तं । ८ ण-भि ।९ ण-निवेशयेत् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy