________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
- अध्यायः ]
मनुस्मृतिः ।
प्रतिज्ञानधर्मोपसंहारः श्लोकोऽयं । " धर्मान्नो वक्तुमहीसे " इति यत्पृष्टं " महर्षीन् श्रूयतामिति ” यद्वक्तव्यतया प्रतिज्ञातं तत्सर्वं कथितमिति शास्त्रपरिसमाप्तिमाह । ननु च “परस्तादप्यस्ति शास्त्रं हंतव्यादिशास्त्रं सा च विधितः श्रूयते । तत्र विधिविषये कश्चिदिति कथमुच्यते शास्त्रमुपसंहियत इति । वक्तुर्न करोति प्राय उपसंहारः । परस्ताच्च कर्मशेषात्स्वप्रधानाशुद्धैव विद्योपदेशत इति न विरोधः । सर्वत्र श्रेयसी शास्त्रार्थधर्मलक्षणा ९ विद्येत्युपसंहत्याभिधाने प्रयोजनम् ॥ ११६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
९३५
एवं स भगवान्देवो लोकानां हितकाम्यया । धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥ ११७ ॥
1
स भगवान् मनुरिदं शास्त्रं सर्व लोकहिताय प्रोक्तवानिति भृगुः शिष्यानाह । अनेनाधिकाराकांक्षा निवर्तते । गुह्यं यदध्यात्मं तदपि मनुर्मामुपदिश्य प्रकाशयांचक्रे । १० ममापि यथागमं भवतां प्रकटीकृतमिति न कार्याधिकाऽकांक्षा ॥ ११७ ॥ सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः ||
For Private And Personal Use Only
सर्व ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः ।। ११८ ॥
、
सबै जगत्सदसद्रूपमुत्पत्तिविनाशधर्मकं अथवाऽन्यः शशविषाणादिवत् यच्च नित्यमाकाशादिवत् सर्वमात्मनि संपश्येदात्मनि व्यवस्थितमुपासीत । संदर्शनार्थस्य १५ स्पष्टार्थस्य साक्षात्करणपर्यन्तयोपासनया विज्ञायते । न हि सकृद्दर्शनेन साक्षात्कारः संभवति । तथोपदिश्यते रहस्यशास्त्रं तत्रात्मध्यानायैतदुक्तं भवति (बृहदारण्यके अ०२ ब्रा० ) " श्रोतव्यो मंतव्यो निदिध्यासितव्य " इति ध्यानपर्यन्तता सद्दर्शनेन दर्शनस्या -- प्यात्मध्यानं यथोपदिष्टज्ञानाम्यासो विजातीयप्रत्ययान्तरितमुच्यते । अथवा सामर्थ्यादभ्यासाक्षेपः । यतः संस्कारकर्मणि च संस्कार्ये विशेषाधानेन संपन्न स्वार्थानि भवन्ति । २. यथा " श्रीहीनवहन्तीति" अश्रुतेोपन्यासतुपकणविप्रमो कफलेभ्यस्तत्संदर्शनेन ह्यदृष्टार्थत। स्यात् । तथा च कर्मविधित्वात् षष्ठिसंस्कारकर्मताहा निश्च । अतः संपश्येदिति ज्ञेयान्तर'विषयज्ञाननिराकरणेन तदेकज्ञेयनिष्ठ| मनुब्रूयात् । अत्रात्मनीति विवदन्ते । कोऽयमात्मा नाम यदि तावदयं विकरणक्षेत्रज्ञत उत्तरं विरुध्येत 'प्रशसितारं रुक्मानम्' इति । न हि कर्मत्वशरीरस्य मृत्योरुत्पत्तिः श्रूयते । नैतस्य वाऽक्षरस्य प्रशासने गार्गीद्यावापृथिव्यौ २५ वि तिष्ठत इति । तस्मान्नेह प्रत्ययप्रमेय आत्मन्यपि संसारविधिः । अतोऽन्या काचित्तस्य स्वरूपसिद्धिर्वत्तत्या । किंचैवं सति पश्येदिति आदिना बाह्यात्मनामप्याधिभूतादिदैवभावेन व्यवस्थितो नामाध्यात्ममुपसंहारः शिष्यते च श्रौतमतोस्तरागः साधन-तया कारणात्मना जितस्य संबन्धितां प्रतिपद्यते । ननु यः सर्व जगत्कारणपुरुषावच्छेद- ३०
1
१ ण-ताना । २ ण-कारणात्मभाजां ।