________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। कर्मण्यतासिद्धिः । अनुविवेचितं ह्यनुमानं स पक्षयोर्दर्शनादर्शनमात्रेणानुमानप्रवृत्तिं मन्वानो वेदेऽपि कर्तारं कल्पयेत् । यदा तु निपुणमतिर्भवति तत्तत्प्रयोजकस्य स्नातव्यलक्षणया तस्य कर्तृत्वस्वकरणस्याभावादपौरुषेयत्वमध्यवस्यति । शास्त्रं च विविधागमं शास्त्रे विविधप्रतिषेधात्तस्य विविधोऽनेकप्रकार आगमो यत्रागम्यते स आगमः । बहुशाखत्वाद्वेदस्य श्रुतिस्मृतिभेदेन च विविधत्वमुक्तं । स चायमर्थः स्वाध्यायविद्याक्षेपः शुद्धभावेनोपदिष्टः । स हि जिज्ञासा च निश्चयावसानेन च प्रत्यक्षादिषु सम्यनिधिः स्त्रीशद्रोच्छिष्टमेवेत्यदत्तं भवितुमर्हति । न हि तच्छूद्रस्योच्छिष्टमिति शक्यं वक्तुं । किं तेन तदुच्छिष्टमिति । एवमादौ संदेहे तूच्छिष्टवचनं प्रमाणं कर्तव्यं । यथा ये शूद्रादयो विप्रांशास्तेषामयं धर्मसंदेहः शिष्टोपदिष्टमेव युक्तं कर्तुं ततश्च न्यूनाधिकभावेन या कृता कल्पना स एव तत्र धर्मस्तेषामपि तथोपदिशतां न दोषः । यत आहे " स धर्मः स्यादशंकित" इति। १० अधर्म ब्रूते दोषधर्मे तु कापि चिकित्सा । तथा गोत्रप्रवरसंदेहे कथं च स्मृतिविच्छेदे ब्राह्मणवचनात् गोत्रप्रवरसिद्भिः । तत्र च प्रवरसंदेहे सर्वेषां मानवे संशय इत्युक्तं । गोत्रसंशये तर्हि भविष्यति । तत्र च गोत्रसंशयाभावे कुतः प्रवरसंशयः । प्रतिगोत्र. प्रवराणां भेदेन पठितत्वात् । उपपद्यत एवमेतद्गोत्रनामधेयं । प्रवराश्च भिन्ना नाना गोत्राणि । तत्र सत्यपि प्रवरनिश्चये योऽत्र, संदेह उत्पद्यते ॥ १० ॥
आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना ॥
यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः॥ १०६ ॥ ऋषिदस्तत्र भवः आर्षो धर्मापदेशो यो वैदिको यस्तकेंणानुमानान्तरेण युक्त्या निरूपयति स धर्म वेदेति पदयोजना । तर्क उहापोहान्तर्यसिद्धिः । इदमत्र युक्तमूहितुमिदमपोहितुं यदा सौर्ये कर्मणि निर्वापमन्त्रे " देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां २० पूष्णो हस्ताभ्यामग्नये त्वा जुष्टं निर्वपामि ” इति प्रकृतितः प्राप्त मन्त्रेऽग्निपदस्यार्थसमवायादपोहः सूर्यपदस्य च क्षेपः । अयं तर्को न विरुध्यते वेदेन योऽप्येवं मन्यते । सौर्ये कर्मण्यग्नेर्देवतायाः अभावादर्थेन च मन्त्राणां प्रयोज्यत्वादेकदेशोपशमे च मंत्रत्वा. भावात् कृत्स्नस्य वै मंत्रस्य लोपः । एष वेदार्थविरोधो तर्कः । यदुच्चारणेन मंत्राणामयं
१ण-क्षेप्तः । २ ण-सम्यश्चिधितेषु यथा दशितिजिनोपपत्तिः । ननु च यद्यापादानिकमकिंतं इदमुक्तं लौकिकमर्थमिति । उच्यते । अनुष्ठानमस्य वैदिकं कार्य तु दृष्टत्वाद्वैदिकमेव । अतःपरं ण-पुस्तके किंचिदपि नास्ति- । तत्र स्त्रीशद्रोच्छिष्टं...उपपद्यते-इत्येतत् १०८ श्लोकस्य व्याख्यायां अतः-संदेहः" इत्येत्परतो निर्दिष्टं । ३ अग्रे १०८ श्लो. ४ ण-योऽप्युच्चारमंत्राणां प्रयोगं मन्यते अतश्चाविष्कृत एव मंत्रः प्रयोक्तव्यः इति सोऽपि वेदशास्त्रविरोधी तर्कः । योऽप्युच्चारेण मंत्राणां प्रयोज्यत्वं मन्यते अतश्चाविकृतएव मंत्रः प्रयोक्तव्य इति सोऽपि वेदशास्त्रविरोधी यथार्थविधिः ( अथमर्थवादः । )
For Private And Personal Use Only