SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ___९२९ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः॥ वेदादेव प्रसूयन्ते प्रसूतिगुणकर्मतः ॥ ९८ ॥ शब्दादीनां भोग्यत्वेन सुखसाधनानां वेदादेव प्रसिद्धिः । वैदिककर्मानुष्ठानाद्गीतादिशब्दोपपत्तिः । तत्परित्यागाच्छ्रुतिकर्मशब्दश्रवणमतः शरीरारंभकाः शब्दादयस्ताभ्यां स्वविषयत्वेनोपतिष्ठमाना वेदाः प्रसिध्यन्तीत्येतदभिप्रायमेतत् । न पुनर्वेद उपादानकरणं । अतः शरीरारंभकाः शब्दादयस्ताभ्यामेतदेवाह । प्रमूतिगुणकर्मतः प्रसूतिः शब्दादीनामुत्पत्तिः । तदर्थ गुणकर्मफलार्थत्वात्प्रधानकर्म च चित्रादिषु गुणधर्म इत्युक्तं । पाठान्तरं 'प्रसूतेर्गुणधर्मतः' इति । गुणाः सत्त्वादयस्तेषां धर्मो विपरिणामस्तस्य या प्रसूतिस्तस्यावस्थायाः प्रच्युतिस्तदुद्रेको विष्वग्भावश्च तत्र वेद एव हेतुरदृष्टनिमित्तत्वात् । वैचित्र्यपाठान्तराणि निष्प्रयोजनत्वान्न लिख्यन्ते ॥ ९८ ॥ विभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ॥ तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् ।। ९९ ॥ तस्मादेतत्परं मन्ये सर्वभूतभरणं च वेदशास्त्रस्य दर्शितं ब्राह्मणे तथा च " हविरग्नौ हूयते सोऽग्निरादित्यमुद्वयति तत्सूर्यो रश्मिभिर्वक्ष्यति तेनार्त्तिर्भवति ततो ह वैनामुत्पत्तिस्थितिति हविर्तायत" इति । इहाप्युक्तम् " अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठत" १५ इत्येवमादि । तस्मादेतत्परं मन्ये पुरुषार्थकारणं यद्येवं कारणेन जन्तोरस्य धर्मानुशासनमेतस्मात्कारणात्तेषु यथा दर्शितोपपत्तिः । ननु च यद्यौपादानिकमध किं तद्भेदयुक्तं लौकिकमर्थमिति उच्यते अनुष्ठानमस्य वैदिकं कार्य तु दृष्टत्वाल्लौकिकमेव ॥ ९९ ॥ सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।। सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ १० ॥ अतिस्तुतिरियं । दण्डेन तावद्दण्डनायका ग्रामनगरयोः कृताकृतप्रेक्षणानियुक्ताः सेना हस्त्यश्वरथपादातं तस्याः पतिः । राज्यं मण्डलेश्वरत्वं सर्वलोकाधिपत्यं सार्वभौमत्वम् ॥ १० ॥ + यथा जातबलो वह्निर्दहत्याानपि द्रुमान् ॥ तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ १०१ ॥ इयमपि पूर्ववत्स्पष्टा पदयोजना प्रसिद्धाश्च पदार्थाः ॥ १०१ ॥ + न वेदबलमाश्रित्य पापकर्मरुचिर्भवेत् । अज्ञानाञ्च प्रमादाञ्च वहते कर्म नेतरात् ॥१॥ १ ख-वेदमुपादानप्रकरणं । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy