SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ मेधातिथिभाष्यसमलंकृता। [द्वादशः या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥ सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः॥९५॥ पूर्व त्वपौरुषेयत्वेन वेदस्य प्रामाण्यमुत्त्ववेदानी पौरुषेयाणां वेदानामप्रामाण्यं । अथ वेदबाह्या वेदविरुद्धा अवेदमूलाः श्रुतयो ग्रंथसंदृप्तेषु " नोदनाश्चैत्यवन्दनेन स्वर्गो भवति " इत्याद्या निर्ग्रथशोभादिसिद्धांतप्रसिद्धाः । कुदृष्टया असत्तर्कदर्शनानिवेदकर्तुः माधनमपूर्वदेवतादिनिराकरणमेवमाद्याः कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य प्रकर्ष प्राप्य । संनिरूपितहेतुदृष्टान्तः । अंततो निष्फला उक्ता अप्ययुक्तानामाभासरूपत्वात्ताश्च युक्तयोन्यवति वर्त्मनि रात्रियति महाग्रंथविस्तारा भवन्ति संक्षेपरूपास्तथा पौरुषेयाणा मुपदेशेनाप्रामाण्ये पुरुषाणामतींद्रियार्थदर्शनशक्त्यभावात् शक्यमपि शक्तेरुदेशिकस्य १० प्रमाणाभावात् । अयं सर्वज्ञस्तेनायमागमः प्रणीत इति न किंचिदत्र प्रमाणं क्रमते । न विद्यमानेऽपि कर्तृपूर्वत्वे दृष्टार्थादृष्टकल्पनाप्रसंगस्तत्प्रमाणत्वे देवतासिद्धिः । अतस्ता युक्तयो व्यामोहमूला इत्यर्थः । अन्ये तु व्याचक्षते प्रेत्यमत्यास्यतानिष्फलास्ता निष्ठास्तामसयोनिहेतुत्वात् । अस्मिन् पक्षेऽसमानकर्तृकत्वात्प्रेत्येति दुर्लभत्वं निष्ठान्ताद्वा सप्तमी पठितव्या प्रेत इति ॥ ९५ ॥ उत्पद्यन्ते च्यवंते च यान्यतोऽन्यानि कानिचित् ॥ तान्यक्किालिकतया निष्फलान्यनृतानि च ॥ ९६ ॥ अतो वेदाद्यान्यन्यानि शासनानि तान्युत्पद्यन्ते विनश्यन्ति च । उत्पादविनाशित्वादनित्यानि । वेदस्तु तद्विपर्ययान्नित्यः । अक्किालिकतयेदानीतनेन पुरुषेण केनचित्कृतत्वादतो निष्फलान्यदृष्टस्य फलस्याभावात् यदि नाम केचिद्विप्रलंभमोदकादि२० लक्षणं सिद्धेऽपि ॥ ९६ ॥ चातुर्वर्ण्य त्रयो लोकश्चित्वारश्वाश्रमाः पृथक् ॥ भूतं भव्यं भविष्यं च सर्व वेदात्मसिध्यति ॥ ९७॥ इयमपि स्तुतिरेव । चातुर्वर्ण्य वेदात्पसिध्यति । अधिकारित्वेनावतिष्ठते " वसन्ते ब्राह्मणो ग्रीष्मे राजन्य." इत्यादि । स्वरूपं तु व्यवहारावगम्यं सर्ववर्णेवतुल्यत्वा२५ दन्यत्र दर्शितं । " त्रयो लोका इतः प्रदानं देवा उपजीवन्ति " अनेन त्रैलोक्यस्थिति हेतुत्वं वेदस्य सिद्धमेव । वेदमूलत्वात्स्मृतीनां ता आश्रमोऽपि वेदा वेदभूतमतीतं जन्मसुखदुःखादि यच्च भवद्वर्तमानं यच्च भविष्यति तत्सर्वस्य वेद एव शरणीयम् ॥१७॥ १ण-युक्तयोज्यष्ववति । २ विस्तारोभवति । ३ ण-लोकाः स्मृताः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy