SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२६ मेधातिथिमाष्यसमलंकृता । [द्वादशः भवतीत्यर्थः । ये चापि भूतान्यप्येतीत्यप्ययं प्रति व्यामोहः सोऽपि न युक्तः। विप्रलापनमप्यय उच्यते । तुषारनिखिलप्रपंचो भवतीत्यर्थः । अभ्येतीत्यपि पाठेऽशरीरत्वमुक्तं भवति ॥९ ॥ कथं पुनः प्रपंचः कर्तव्य इत्यत आह सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥ समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ ९१ ॥ भूतशब्देन यत्किचित्स्थावरजंगमं पुण्यप्राणि तत्सर्वमुच्यते । तत्र चात्मानं पश्येत् । अहमिवैतज्जगदिति । तथा च श्रुतिः । ( शिक्षोपनिषदि ११।१) “ अहं वृक्षस्य रेरिवेति " । प्रतिषेधव दावभासस्वपरव्यवहारं जह्यात् । अयमहमेतन्मम नेदं ममेति अद्य ते वंध्यस्त्यक्तात्मात्मीयाभिनिवेशस्योज्झितस्वपरभेदस्य केवलात्मैकत्वं भाति न स्वाराज्यदेवतार्थः । सर्वभूतानि चात्मनीति । यदेव विकारप्रपंचरूपं जगत्तदेव तन्मयि स्थितं अहमेकः स्रष्टा कर्ता ध्याता ध्येयश्चेति संपद्यते । आत्मयाजी आत्मानमेव सर्वदेवतामयत्वेन यो यजते मन्यते नास्त्यादित्यो वा देवता अहमेव देवतेत्येवं पश्यन्नात्मयाजी संपद्यते । न पुनरात्मापदेशेन यागः कर्तव्यतया चोच्यते । केचिदाहुः । नाग्नेयादि१५ प्वग्न्यादयो देवता आत्मत्वेनापि न वक्तव्याः । स्वाराज्यान स्वे राज्ये भवाः स्वाराज्याः । परमात्मवत्स्वतन्त्रः संपद्यते स्वप्रकाशश्च भवति । चंद्रादित्याद्यालोकमपेक्षतेंद्रियाणि चक्षुरादीनि नान्तःकरणं मन आदितः पश्यन्तीति च । भावे तदुच्यते । दर्शनमात्रं सकलबाह्याभ्यन्तरव्यापारतिरस्करणे तद्भावनापरस्यात् ॥ ९१ ॥ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः॥ आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥ ९२ ॥ यथोक्तान्यपि कर्माणीति नानेनाग्निहोत्रादीनां कर्मणां परिहानिर्विधीयते । अपि त्वात्मज्ञाने यत्नवान् स्यादित्यात्मज्ञानाभ्यासो विधीयते । कर्माणि परिहायेति त्वालंबनं प्रशस्तदेवतायतनप्रदक्षिणमत्र गुरुगमनादीनि मुक्तोऽप्यात्मज्ञानमभ्यस्येन्न हि नित्यानां कर्मणां स्वेच्छया परित्यागोऽस्ति पुरुषमेधादिषु विहिते नास्ति त्यागेन विना ॥१२॥ एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः॥ पाप्यतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥ ९३ ॥ द्विजन्मनां भवति क्षत्रियवैश्ययोरप्यात्मज्ञानेऽधिकारं दशर्यति । यथा च राणकश्रुतिः " ब्राह्मणस्य विशेषतः” इति । वेदाभ्यास इति संबन्धनीयं । आत्मज्ञेन १ ण-आत्मोद्देशेग । २ ण-अभावे । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy