________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
- मनुस्मृतिः ।
९२३
स्ववाक्यैरेव प्रमाणयितुमर्हन्ति । अथोच्यते । याज्ञवल्कीयायाः स्मृतैर्विधिस्तैरुच्यते । नात्मीयायाः समानता । यत्तावदात्मीयायामप्युक्तं भवत्यतः प्रकरणानुरोधाद्वेदाभ्यासादि पदं पृथक् अग्निहोत्राद्युपदेशः । नेहात्मानं प्रतिज्ञायेदं पठ्यते । कथं च तैाख्यातमिति आत्मज्ञानं श्रुतिपरत्वेन वेदाभ्यासादिभ्यो वैदिकं यागादि कर्म श्रेष्ठमिति । ततोऽध्यात्मज्ञानमितरथाऽन्यत्र प्रजाया अन्यदुच्यमानमन्यत्रास्तमन्यत्र पतितं स्यात् । अथवा ५ वैदिकं मन आत्मज्ञानमेवमर्थस्य वेदस्य तत्प्रतिपादनपरत्वादग्निहोत्राद्युपदेश औषधपाने वृद्धयुपदेशवद्वालादिप्रवृत्त्यर्थः । यदि वा कर्मकाण्डेन शिष्टाः स्वाभाविकीमेनामनाद्यविद्यां वासनाविषयासंगहेतुभूतामवधूय शाखांभ्यासवासनासामर्थ्यवशात् क्रमेणोपजातवैराग्यशिथिलीभूतदृढतृष्णारागग्रहण उत्तमाधिकारानुशासने नियोज्यतां प्रतिपत्तुं समस्तमपि श्रुत्यादिष्टत्वमधिकारोपकारकत्वं कर्मकाण्डस्य विज्ञायत इति ब्रह्मवादिनः। अतो वक्ष्यमाण- १० निवृत्त्याख्यकाभिप्रायमेतत् । श्रेयस्करतरं ज्ञेयं सर्वथा कर्म वैदिकमिति ।
__ अथवा भेदो यदि सर्वेषामपि स्वप्नवदसत्यदर्शनद्वयेऽप्यात्मैकत्वज्ञाने श्रेय इत्यर्थः । स्ववेदाभ्यासादीनां भेदोपदेशादिनोद्यं तत्कर्तव्यम् । पष्ठीनोद्यं तु तैरेव समाहितं बुद्ध्यारोपितान्तरेण पृथक्त्वोपपत्तेः । यथा मथुराः पाटलीपुत्रकेभ्य आढ्यतरा इति । तथा सति पंचमी स्यादिति चेत् अत्रापि प्रतिविहितं धर्माविशेषात् ॥ ८६ ॥ १५
वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः ॥ ___ अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ ॥ ८७ ॥
एतावद्वदिकं कर्म ज्योतिष्टोमाद्याचक्षते । तेषामेव श्लोकयोजना क्रियाविधिः कर्मविधिर्वेदिककर्मयोगे कर्मप्रयोगे बहिःसंपाद्यावस्थाः । एतान्युपनिषद्वेदाभ्यासादीन्यन्त. भवन्ति । तस्मिन्निति व्याप्यतया क्वचित् कस्यचित्सममेषामन्तर्भावमाह । कर्मयोग २० इत्युक्ते क्रियाविधिग्रहणं श्लोकपूरणार्थ । कतुं यज्ञेभ्य इति तद्वा सोमयागभेदेन भेदो व्याख्येयः । तत्र वेदाभ्यासस्तावत् सर्वत्रान्तर्भवति । यजमानमन्त्रेषु सर्वत्रोपयोगतः तपोदीक्षोपदेशसोमयागेषु " पयोऽमृतं ब्राह्मणस्य" इत्यादि ज्ञानं सर्वत्रापि दुःखानधिकारात् । एवमिन्द्रियसंयमः प्रत्यहगामिनः । स्त्रियमपेयान्न मांसमश्नीयादिति ' । अहिंसानिरतां रात्रि प्राणभृतः प्राणेनाच्छिन्द्यादपि कृकलासस्येति गुरुसेवादेरित्थमप्रवृत्तिः । ये तु २६ निवृत्तमेव कर्माहुस्तेषां वेदाभ्यासादीनामनुवृत्त्यर्थः श्लोकः । अन्तर्भवन्त्युपासनापरस्यापि तेषामनुष्ठानादन्तर्भावः । तथा चोपनिषद्भय उपासकस्य प्रायश्चित्तनिर्देशः पापक्षपणार्थो न
१ ण-अनादिप्रतिज्ञावासना २ ण-शास्त्रार्थेभ्यो वासनासामात् क्रमे गापजायेत वैराग्यं । ३ ण-श्रुत्याधिपूर्व मधिकारो-। ४ ण-काण्डे । ५ ण-चोयं । ६ ण-समौहितं । ७ ण-पञ्चमीत्यस्येति चेत् । ८ ण-वीप्सया ।
For Private And Personal Use Only