________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ।
मनुस्मृतिः ।
९२१
प्रतिषिद्धानां च कर्मणां यावत्फलोत्पत्तिस्तानि समुपदिष्टानि ततो वर्तितव्यम् । यतो दुःखानुबन्धी विषयसुखोपभोगोऽतस्ततो निवर्तन्ते । श्रेयसे कर्मविधौ मोक्षोपाये वक्ष्यमाणविद्याकाण्ड उपदिष्टे स्थातव्यं तदिदानीं वक्ष्यामः ॥ ८२ ॥
वेदाभ्यासस्तपोज्ञानमिन्द्रियाणां च संयमः ॥
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ ८३ ॥ निःश्रेयसशब्देन न पुनः पुरुषार्थसिद्धिरुच्यते । अपि तु निश्चितसुखदुःखानुबन्धः प्रीतिविशेषोऽपि । वेदाभ्यासादीनां तत्र तत्रोक्तानां पुनर्वचनमात्मज्ञानस्तुत्यर्थे । ज्ञानं वेदार्थविषयं । उक्तार्यान्यन्यानि पदानि ॥ ८३ ॥
सर्वेषामपि चैतेषां शुभानामिह कमर्णाम् ॥ किंचिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ ८४ ॥ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ॥
तद्धययं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ ८५ ॥ द्विविधमाद्मज्ञानं देहेंद्रियबुद्धयादिव्यतिरिक्तस्य कर्तृभोक्तत्वोपपत्तिरूपस्य । अहंप्रत्ययप्रमेयतयाऽऽत्मनि विषयप्रतीत्यन्तर्गतस्य जीवक्षेत्रज्ञविज्ञानात्मादिपर्यायस्य शरीरनाशेऽप्यनष्टानां कर्मफलानामौर्वदेहिकानां भोक्तत्वज्ञानं अपरं सर्वस्य जगतो जन्मादीनां १५ परमात्मैककारणत्वे नित्यस्य सत एकस्याविद्यावासनोपहितनानारूपस्य तिर्यक्मनुष्यादिप्वेकत्वदर्शनं । “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य" (बृहदा. रण्यके अ. २ ब्रा. ५) इत्येवमादिश्रुतिभिरुपदर्शितस्वरूपस्य ज्ञानं । तत्र क्षेत्रज्ञपरिज्ञानं कर्मविधिषूपयुज्यते । असति हि देहादिव्यतिरिक्तेऽस्मिन्नौर्ध्वदेहिकानां भोक्तरि फलानां स्वर्गकामादिचोदना अनर्थिकाः स्युरतस्तत्र न कश्चित्प्रवर्तेतातस्तत्कर्मानुष्ठानोपयोगि। २० यत्तु परमात्मैकत्त्वज्ञानतिरोधीनोपसेनाभ्याससामर्थेनोपपद्यमानं शुद्धबुद्धमुक्तानन्दनित्याविनश्वरभावस्यात्मनः प्रकाशनं तत्रेदमुपपद्यते । तदनं सर्वविद्यानां प्राप्यते ह्यमृतं तत इति । अमृतं ततः गतेापत्तिं तत इति विद्यानिर्देश आत्मविद्यायाः क्षेत्रज्ञज्ञानं तु कर्मोपकारकत्वादमृतत्वाय कल्पते । अतो वेदान्तोपदिष्टस्य समस्तस्य द्वैताद्वैतविषयस्य सदात्मनो दर्शनं तदात्मज्ञानमभिप्रेतम् ॥ ८ ॥
षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चेह च ॥ श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ ८६ ॥
१ फ-त्र; । ख-ता । २ ण-ने । ३ ण-तद्गतेव्यो । ४ क-धा।
१९६-११७
For Private And Personal Use Only