SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२० मेधातिथिभाष्यसमलंकृता। [द्वादशः तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ॥ असिपत्रवनादीनि बन्धनच्छेदनानि च ॥ ७५ ॥ " तामित्रमन्धतामित्रम्" इत्याद्याः प्रागुक्ता नरकाः । तत्र विवर्तनमेकेन पार्थेनासित्वा पार्थान्तरेणावर्तनं अबद्धस्योत्तानस्य वा खड्गधारानिशितपत्रैर्वृक्षर्बन्धनं भूमिष्ठा ...पत्रैरेव कदलीदलखंडवत् । तथाविधैमैत्री दुष्कृतिनामंगच्छेदप्राप्तिः ॥ ७९ ॥ विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् ॥ करम्भवालुकातापान्कुंभीपाकांश्च दारुणान् ॥ ७६ ॥ करंभः कर्दमः । कुंभीषु प्रक्षिप्तास्ते हि तापेनाऽऽग्नेयेनान्नादिवत्पच्यन्ते ॥ ७६ ॥ संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः ॥ शीतातपाभिघातांश्च विविधानि भयानि च ॥ ७७ ।। वियोनयः तिर्यक्प्रेतपिशाचादयः । तत्र संभवो जन्म दुःखबहुलासु ॥७७ ॥ असकृद्गर्भवासेषु वासं जन्म च दारुणम् ॥ बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च ॥ ७८ ॥ स्पष्टार्थः ।। ७८ ॥ बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः ॥ द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ ७९ ॥ जरां चैवाप्रतीकारां व्याधिभिश्चोषपीडनम् ॥ क्केशांश्च विविधांस्तांस्तान्मृत्युमेव च दुर्जयम् ॥ ८ ॥ एतावप्युक्तार्थौ ॥ ७९ ॥ १० ॥ यादृशेन तु भावेन यद्यत्कर्म निषेवते ॥ तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ८१ ॥ सात्त्विकेन राजसेन तामसेन वा भावेन यद्यत्कर्म निषेवते सात्त्विकं राजसं तामसं वा शरीरेण तादृशेनेत्यर्थः । सत्वबहुलेन रजोबहुलेन तमोबहुलेन वा तत्तत्फल मुपाश्नुते । सात्विकं राजसं तामसं वा यतश्चैतदेवं रजस्तमोबहुलात् कर्मणोऽकुशल२९ संकल्पहेतोरनिष्टफलप्राप्तिः । अतस्तत्परिवर्जनेन कुशलसंकल्पकर्मणा भवितव्यम् ॥ ८१ ॥ एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः॥ नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ ८२॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy