________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
इंद्रियसंगोऽप्रतिषिद्धसेवनप्रदर्शनार्थः । असवेनं धर्मस्य शिष्टाकरणं । एतचाविदुषां भवत्यत आहाविद्वांसो त एव नराधमाः। अतश्च परमात् संसारात् कुत्सितानि नन्मस्थानानि संयान्ति प्रावप्नुन्ति । तत्र प्रसिद्ध एव तावत्कर्मविपाकः प्रचक्ष्यते॥१२॥
यां यां योनि तु जीवोऽयं येन येनेह कर्मणा ॥ . क्रमशो याति लोकेऽस्मिस्तत्तत्सर्वं निबोधत ॥ ५३ ॥ बहून्वर्षगणान्घोरान्नरकान्प्राप्य तत्क्षयात् ॥
संसारान्मतिपधन्ते महापातकिनस्त्विमान् ॥ ५४ ॥ घोरान्नरकान् दुःखप्रसहनव्यथया घोरा यातनास्थानानि नारकान् तत्क्षणादुद्भुतरूपस्य कर्मणः फलोपभोगेन क्षयं तत ईषदवशिष्टे कर्मणि संसारप्रतिपत्तिः । कथं पुनः सर्वकर्म तत्रैव न भुज्यते । उक्तं । इंद्रियस्य कर्मणो नरककलं नोपशान्तस्य कार्य- १० विरोधित्वाच्च कर्मणां फलेनोपशमः । तत्र यथैव च ज्वलितस्याग्नेरुदर्चिषो दाहो विनियोगस्तपश्चादंभ एव स्थितस्यैवं नरकेष्वषि द्रष्टव्यं । अग्नेस्तु द्वे अवस्थे भवतः । प्रशान्तता ज्वाला च। नरकस्तु एकरूप एव सर्वदा ।उदर्चिष इवाग्नयः कर्माणि चोपचयापचयवन्त्यत उपचितस्य कर्मणो नरकोऽपचीयमानस्य ततोऽन्यत्रोपभुक्तिः तत्र युक्तं ततः शेषेणेति ॥१४॥
श्वसूरकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् ॥ चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ॥ ५५ ॥ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम्॥
हिंस्राणां चैव सत्वानां सुरापो ब्राह्मणो व्रजेत् ॥ १६॥ विड्भुजा वायसादयः । हिंस्राणां व्याघ्रादीनाम् ॥ १६ ॥
लूताहिसरटानांच तिरथां चाम्बुचारिणाम्।। हिंस्राणां च पिशायानां स्तेनो विमः सहस्रशः ॥ ५७ ॥ तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपिः।।
क्रूरकर्मकृतां चैव शतशो गरुतल्पगः ।। ५८ ॥ क्रूरकर्मकृताः परवधशीलाः ॥ ५८ ॥
हिंसा भवन्ति क्रव्यादाः कृमयोऽभक्ष्यभक्षिणः॥
परस्परादिनः स्तेनाः प्रेताऽन्त्यस्त्रीनिषेविणः॥ ५९॥ क्रव्यादा गृध्रादयः । अमेध्यभाक्षिणः कृमयः परस्परमदन्ति । यथा महामार्जारो माजीरं महामत्स्यः सूक्ष्मं मत्स्यं नैकभेदमिव अन्त्यस्त्रीनिषेविणो बर्बरादयः ॥ ५९॥
१ण-संगम अप्रतिषिद्ध-२ण-पापात् । ३ विनियोगतपश्चादंगारावस्थितस्य पवनरकेष्वपि द्रष्टव्यम्।
For Private And Personal Use Only